________________
९. १५.] सप्तभङ्गीनिरूपणम् ।
१५३ व्यम्, स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यम् इति सप्तभङ्गीप्रयोगः अस्तिनास्तित्वसाधने वस्तुनः कर्त्तव्यः ॥१३॥
अथ सप्तभङ्गीमेव स्वरूपतो निरूपयन्तिएकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्यप्रयोगः सप्तभङ्गी ॥१४॥
६१ एकत्र जीवादी वस्तुन्येकैकसत्त्वादिधर्मविषयप्रश्नवशादविरोधेन प्रत्यक्षादिबाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यासः सप्तभङ्गी विज्ञेया । भज्यन्ते भियन्तेऽर्था यैस्ते भङ्गा वचनप्रकारास्ततः सप्त भङ्गाः समाहृताः सप्तभङ्गीति कथ्यते ।
नानावस्त्वाश्रयविधिनिषेधकल्पनया शतभङ्गीप्रसङ्गनिवर्तनार्थमेकत्र वस्तुनीत्युपन्यस्तम् । एकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मपर्यालोचनयाऽनन्तभङ्गीप्रसक्तिव्यावर्त्तनार्थमेकैकधर्मपर्यनुयोगवशादित्युपात्तम् ।
३ अनन्तेष्वपि हि धर्मेषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्त्तमानत्वात् तत्प्रतिवचनस्यापि सप्तविधत्वमेवोपपन्नमित्येकैकस्मिन् धर्मे एकैकैव सप्तभङ्गी साधीयसी । एवं चानन्तधर्मापेक्षया सप्तभङ्गीनामानन्त्यं . यदायाति, तदभिमतमेव । एतच्चाने सूत्रत एव निर्णेष्यते ।
६३ प्रत्यक्षादिविरुद्ध सदायेकान्तविधिप्रतिपेधकल्पनयाऽपि प्रवृत्तस्य वचनप्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थमविरोधेनेत्यभिहितम् ।
अवोचाम च--
"या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया
जल्पन् जल्परणाङ्गणे विजयते वादी विपक्षं क्षणात् ॥१॥" ६४ इदं च सप्तभङ्गीलक्षणं प्रमाणनयसप्तभङ्ग्योः साधारणमवधारणीयम् । विशेषलक्षणं पुनरनयोरग्रे वक्ष्यते ॥१४॥
સપ્તભંગીના સ્વરૂપનું નિરૂપણ–
એક પદાર્થમાં કેઈ એકેક ધર્મવિષેના પ્રશ્નને કારણે વિધ ટાળી જુદા જુદા અથવા સંમિલિત વિધિ અને નિષેધની કપના દ્વારા “સ્યાત' પદથી ચુકત સાત પ્રકારને વચનપ્રાગ સપ્તભંગી છે. ૧૪.