________________
२४०
शक्तिसमर्थनम् ।
[४. ११च प्रतिबन्धकाभावे तं विनापि कार्योत्पत्तिः ॥ तत एवेति प्रतिवन्धकामावादेव ॥ तृतीय इति प्रतिबन्धकसद्भावेपि देशकालादिसामग्री विद्यते, ततः शक्त्यन्तरदाहजनक प्रादुर्भवति । तत एवेति अतीन्द्रियार्थान्तरनिमित्तत एव । अनयेति शक्तिकल्पनया, तदिति तस्मात्कारणात् प्रतिवन्धकसद्भावे । न श्रायस इति नोत्तमः । तद्वदेवेति शक्तिनाशव देव । तद्धर्मति शक्तिधर्मनाशः।
६२३ अत्राभिदध्महे । एतपु शक्तिनाशपक्ष एव कक्षोक्रियत इत्यपरविकल्पशिल्पकल्पनाजल्पाकता कण्ठशोपायैव वः संवभूव । यत्तूक्तम्-कुतः पुनरसावुत्पद्यतेति । तत्र शक्त्यन्तरसहकृतात् कृपीटयोनेरवेति ब्रूमः ।
२४ ननु प्रतिबन्धकदशायां सा शक्तिरस्ति नवा । नास्ति चेत् , कुतः पुनरुत्पघेत । शक्त्यन्तरसहकृतादग्नेरेवेति चेत् , तर्हि साऽपि शक्त्यन्तरसधीचस्तस्मादेवोन्मउजेदित्यनवस्था । अथास्ति, तदानीमपि स्फोटोत्पादिकां शक्ति संपादयेत् , ततोऽपि स्फोटः स्फुटं स्यादेवेति ।
६२५ अत्रोच्यते । प्रविन्धकावस्थायामप्यस्त्येव शक्यन्तरम् , घटयति च स्कोट- .. घटनलम्पटां शक्तिं तदाऽपि । यस्तु तदा स्फोटानुत्पादः, स प्रतिबन्धकेनोत्पन्नोत्पन्नायास्तस्याः प्रध्वंसात् । प्रतिबन्धकापगमे तु स्फोटः स्फुटीभवत्येवेत्यतीन्द्रियशक्तिसिद्धिः । अत्राऽऽशङ्कान्तरपरीहारप्रकारमौक्तिककणप्रचयावचायः स्याद्वादरत्नाकरात् तार्किकैः कर्तव्यः । एवं च स्वाभाविकशक्तिमान् शब्दोऽथै बोधयतीति सिद्धम् ।
अथ तदङ्गीकारे तत एवार्थसिद्धेः सङ्केतकल्पनाऽनर्थिकैव स्यादिति चेत् । नैवम् । अस्य सहकारितया स्वीकारात् ; अङ्कुरोत्पत्तौ पयःपृथिव्यादिवत् । अथ स्वाभाविकसंबन्धाभ्युपगमे देशभेदेन शब्दानामर्थभेदो न भवेद् , भवति चायम् , चौरशब्दस्य दाक्षिणात्यैरोदने प्रयोगादिति चेत् । तदशस्यम् । सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशे यदर्थप्रतिपादनशक्तिसहकारी संकेतः, स तमथै तत्र प्रतिपादयतीति सर्वमवदातम् ।
ફર૩. જેન–ડે તૈયાયિકો ! તમોએ શક્તિના વિષયમાં ઉપર જે વિકલ્પો કર્યા તેમાંથી ફક્ત શક્તિનાશ પક્ષનો જ અમે સ્વીકાર કરીએ છીએ. તેથી બાકીના બીજા વિકલ્પ કરવા એ નિષ્ફળ છે. અને તમે જે કહ્યું હતું કે શક્તિ પુનઃ ક્યાંથી ઉત્પન્ન થાય છે તે તેના ઉત્તરમાં કહેવાનું કે, તે શક્તિ અન્ય શક્તિના સહકારવાળા અગ્નિથી ઉત્પન્ન થાય છે.
g૨૪નિયાયિક–પ્રતિબંધક દશામાં તે અન્ય શક્તિ છે કે નથી? જે નથી એમ કહે તે–એ શક્તિ વળી કેનાથી ઉત્પન્ન થાય છે? કદાચ તેથી અન્ય શક્તિના સહકારવાળા અગ્નિથી તે શક્તિ ઉત્પન્ન થાય છે–એમ કહે –તે શક્તિ પણ