________________
१३८
नैयायिककृतं शक्तिनिराकरणम् । [४.११(टि०) प्रस्तुते इति प्रागभाव-प्रध्वंसाभावकारणत्वे तत्कारणकमिति प्रागभावादिकारणकम् । तदिति पूर्वविदित दाहादि । ____ अथ गोमयादित्यादि ॥ तत्रेति वृश्चिकोत्पादे। तच्छक्तियुक्तानीति वृश्चिकडिम्भारम्भकशक्तियुक्तानि । तत्कार्येति वृश्चिकडिम्भोत्पादकानि । अयमिति अनियतहेतुकलक्षणः । न इति अस्माकम् । अत्रापीति वृश्चिकोत्पादेऽपि । अयमिति अनियतहेतुकत्वकलङ्कः प्रकटीभवन् दुर्निवारः ॥ अमी इति योगाः ।
६२२ अथ शक्तिपक्षप्रतिक्षेपदीक्षिता आक्षपादा एवं साक्षेपमाचक्षते-ननु भवत्पक्षे प्रतिबन्धकोऽकिञ्चित्करः, किञ्चित्करो वा भवेत् । अकिञ्चित्करप्रकारे, अतिप्रसङ्गः, शृङ्ग-. भृङ्गभृङ्गारादेरप्यकिञ्चित्करस्य प्रतिवन्धकत्वग्रसङ्गात् । किञ्चित्करस्तु किञ्चिदुपचिन्वन् , अपचिन्वन् वा स्यात् । प्राचि पक्षे, किं दाहशक्तिप्रतिकूलां शक्तिं जनयेत्, तस्या एव धर्मान्तरं वा । न प्रथमः, प्रमाणाभावात् । दाहाभावस्तु, प्रतिबन्धकसन्निधिमात्रेणैव चरितार्थ इति न तामुपपादयितुमीश्वरः । धर्मान्तरजनने तदभावे सत्येव दाहोत्पाद इत्यभावस्य कारणत्वस्वीकारः, त्वदुक्ताशेपप्रागभावादिविकल्पावकाशश्च । अपचयपक्षे तु प्रतिबन्धकस्तां शक्ति विकुट्टयेत् , तद्धर्म वा । प्रथमप्रकारे, कुतस्त्यं कृपीटयोनेः पुनः स्फोटघटनपारवम् । तदानीमन्यैव शक्तिः संजातेति चेत् । नतु सा संजायमाना किमुत्तम्भकात् , प्रतिबन्धकाभावाद्, देशकालादिकारक चक्राद् , अतीन्द्रियार्थान्तराद्वा जायते । आद्यभिदायाम् , उत्तम्भकाभावेऽपि प्रतिबन्ध काभावमात्रात् कौतस्कुत कार्यार्जनं जातवेदसः । द्वितीये भेदे, तत एव स्फोटोत्पत्तिसिद्धेः शक्तिकल्पनावैयर्थ्यम् । तृतीये, देशकालादिकारकचक्रस्य प्रतिबन्धककालेऽपि सद्भावेन शक्त्यन्तरप्रादुर्भावप्रसङ्गः । चतुर्थे, अतीन्द्रियार्थान्तरनिमित्तकल्पने तत एव स्फोटः स्फुटं भविष्यति, किमनया कार्यम् ? । तन्न शक्तिनाशः श्रायसः, तद्वदेव तद्धर्मनाशपक्षोऽपि प्रतिक्षेपणीयः ।
g૨૨ નિયાયિક—શક્તિ પક્ષનું ખંડન કરવાને અમે આક્ષપદે-નિયાયિક પ્રતિજ્ઞાબદ્ધ છીએ. અમારે આક્ષેપ છે કે – હે શક્તિવાદીઓ મણિમંત્ર-તંત્રાદિ જે પ્રતિબંધક છે તે તમારા મનમાં અકિંચિકર છે કે કિંચિકર- (કંઈ પણ કરનાર)? અકિચિકર હોય તો-અતિપ્રસંગદેષ આવશે કારણકે–અકિંચિકર એવા શંગભંગ ભંગારાદિને પ્રતિબંધકતાની પ્રાપ્તિ થશે. કિંચિકર હોય તે શું કાંઈક ઉત્પન્ન કરે છે માટે કે કેઈને નાશ કરે છે તેથી પ્રતિબંધક કહેવાય છે? કાંઈક ઉત્પન્ન કરવાથી તે કિંચિત્કર હોય તે-તે દાહ શક્તિથી પ્રતિકૂળ શક્તિને ઉત્પન્ન કરે છે કે શક્તિના કેઈ ધર્માન્તરને ઉત્પન્ન કરે છે? પ્રતિફળ શક્તિની ઉત્પત્તિ તે માની શકાશે નહિ, કારણ કે તેમાં કોઈ પ્રમાણ નથી, દાહાભાવને પ્રતિલ શક્તિની ઉત્પત્તિમાં પ્રમાણુરૂપે ઉપસ્થિત કરી શકાશે નહિ, અર્થાત પ્રતિલા