SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १३० अभावस्थाजनकत्वम् । [४.११ ધમીની સિદ્ધિ થતી નથી. તેથી પૂર્વોક્ત હેતુ આશ્રયાસિદ્ધ છે. અને પૂર્વોક્ત અભાવરૂપ ધમી જ્ઞાત ન હોય તે ધમી તરીકે તેનું ઉપાદાન કેમ કર્યું? અજ્ઞાત છતાં ઉપાદાન કર્યું તે હતુ આશ્રયાસિદ્ધ જ થ. ___ (प.) नन्वयमित्यादि योगः प्रश्नयति । प्रतिपन्न इति । भावोत्पादकत्वेन । उपमानादेरिति उपमानाद्यभावात् । तत्प्रतिपत्ताविति अभावप्रतिपत्तौ । तत्रापीत अनुमानेऽपि । तत्प्रतीतिरिति अभावप्रतीतिः । तति अभावे । तिरस्कृतत्वादिति पूर्वमेव । तत इति विकल्पमात्रात् । कस्यापीति पदार्थस्य । अन्यथेति विकल्पादेव सायसिद्धौ । आययासिद्ध इति विकल्पादेवाभावाऽसिद्धः । धर्मितयेति प्रतीतो हि धर्मी क्रियते ।। (टि०) अत्रेति अभावप्रतिपत्तौ। तत्प्रतिपत्ताविति अभावप्रतिपत्तौ । तत्रापीति अभावप्रतिपत्तिसाधकानुमाने । तत्प्रतीतिरिति अभावप्रतीतिः । तन्मात्रादिति विकल्पमात्रादेव । तत्रेति अभावे धर्मिणि । तत इति विकल्पमात्रात् । अन्यथेति विकल्पमात्रादेव प्रतिपत्ति. सिद्धौ । तथा चेति अभावप्रतीतो साधकप्रमाणाभावे ॥ उपादायीति उपात्तः । उपात्ते इति अप्रतिपन्नेऽभावे धर्मितया गृहीते सति ।। १२ अत्रोच्यते । विकल्पमात्रादेव तत्मतिपत्तिं ब्रूमहे । न चाश्रयासिद्धिः, अवस्तुनि विकल्पात् प्रसिद्धेवल्याश्रयणीयत्वात् । अन्यथा वन्ध्यास्तनन्धयादिशब्दानुच्चारणप्रसङ्गात् । न च नोच्चार्यत एवायं मयेति वाच्यम् । वान्ध्येयोऽस्ति, नास्ति वेति पर्यनुयोगे पृथ्वीपतिपरिषद्यवश्यं विधिनिषेधान्यतराभिधायिवचनस्यावकाशात् । तूष्णी पुष्णतोऽस्याऽप्रतिपित्सितं, किञ्चिदुच्चारयतो वा पिशाचकित्वप्रसङ्गात् । तथाविधवचनोच्चारणे च कथमेतदिति प्रमाणगवेपणेऽनुमानमुच्चार्यमाणमाश्रयसिद्धिग्रस्तम् । समस्तं निष्प्रमाणकं वचनमात्रं प्रेक्षावता प्रश्नकृताऽनपेक्षितमेव । न चोभयाभावोs. भिधातुं शक्यः । विधिनिषेधयोर्भावाभावस्वभावत्वात, एकनिषेधेनापरविधानात् । विधिप्रतिषेधो हि निषेधः, निपेधप्रतिषेधश्च विधिः । अस्तु वोभयप्रतिपेधप्रतिज्ञा, हेतोस्तु तत्रोपादीयमानस्य नाश्रयासिद्धिपरिहारः । तदुक्तम् -- "धर्मस्य कस्यचिदवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किमिहास्ति नो वा । अस्त्येव चेत् कथमियन्ति न दूषणानि ! नात्येव चेत् स्ववचनप्रतिरोधसिद्धिः" ॥१॥ अवस्तुनि वाधाविधिव्यवहारो नास्तीत्येतदनेनैव स्ववचनेन प्रतिरुध्यते; नास्तीतिप्रतिपेधस्य स्वयंकृतत्वात् , इत्यन्त्यपादस्यार्थः । तुरङ्गशृङ्गदृष्टान्तोऽपि विकल्पादेव प्रसिद्धः स्वीकर्तव्यः । तत्र च वस्त्वे कान्तव्यतिरेके सति भावानुत्पादकत्वमपि प्रतीतम् , इति नास्य साध्यसाधनोभयवैकल्यम् । १ भावोऽस्यासिद्धः ल।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy