________________
४. ११.] शक्तिविचारः।
१२५ (प०) अथेत्यादि परः। क्लेशेनेत्यतोऽग्रे 'यतः' इति गम्यम् । संयोगादीति आदि शब्दार्थोऽग्रे पूर्वपक्षे निर्वहिप्यति । हीति 'हि'शब्द एवार्थः । अनयेति शवत्या । जयन्त इति जयन्तमञ्जर्याम् ।
स्वरूपादिति । केवलात् कार्यमिति दाहादि । सहकार्युपबंहितादिति करतलसंयोगाग्रुपबंहितात् । अन्यामिति स्वरूपमात्राद् व्यतिरिक्ताम् ।
यत् तूक्तमिति जैनेन । पिपासामित्यतोऽने "किंतु' इति गम्यम् । दाहादाविति विषये ।
(टि.) यदनयेति शक्तिकल्पनया ।
स्वरूपादिति करतलानलसंयोगादिसहकारिकारणकलापपरिकरितात्मस्वरूपात् कृपीटयोनेः स्वभावात् कार्यम्-दाहादि उत्पद्यमानं अन्याम् स्वरूपाद्वयतिरिक्ताम् शक्तिम् अदृश्यसामWसमर्थनसमर्थतां नाश्रयति । न हि वयमित्यादि ॥ यथाप्रवृत्तमिति प्रवृत्त्यनतिक्रमेण लोकव्यवहारेणेत्यर्थः । तदेवेति अग्नित्वादि । तदर्थिन इति दाहाभिलापिणः ।
६ तदेतदतथ्यम् । यतो यथाभूतादेव विभावसोर्दाहोत्पत्तिः प्रतीयते, तथाभूतादेव मणिमन्त्रयन्त्रतन्त्रौषधादिसन्निधाने सति न प्रतीयते । यदि हि दृष्टमेव रूपं स्फुटं स्फोटं घटयेत् , तदा तदानीं तस्य समस्तस्य सद्भावात्तदनुत्पादो न स्यात् । अस्ति चासौ ततो दृष्टरूपस्य व्यभिचारं प्रपञ्चयन्नतीन्द्रियायाः शक्तेः सत्त्वं समर्पयति । तथा च
"स्वरूपात् क्वाप्यनुचत्तत् सहकार्युपवृहितात् ।
किं न कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ?' ॥१॥ ६७ यत्तूक्तम्-दाहादावन्वयव्यतिरेकाभ्यां वा, वृद्धव्यवहाराद्वा ज्वलनादेरेव कारणत्वमवगच्छाम इति । तदुक्तिमात्रमेव । यत एव हि दाहदहनयोः कार्यकारणभावनियमः प्रसिद्धिपद्धतिप्रतिवद्ध एव, तत एव प्रसङ्गः प्रवर्त्यते । यदि कृशानुः स्वरूपमात्रादेव दाहमुत्पादयेत् , तर्हि तदविशेषादुदन्याऽपनोदमपि विध्यादिति । अथ न मणिमन्त्रादिप्रतिवन्धकनैकट्ये स्फोटानुत्पत्तिरदृष्टं रूपमाक्षिपति । यथा ह्यन्वयव्यतिरेकाभ्यामवधृतसामों दहनो दाहहेतुः, तथा प्रतिबन्धकाभावोऽपि । स च प्रतिवन्धकयोगे विनिवृत्त इति सामग्रीवैगुण्यादेव दाहस्यानुत्पत्तिः, न तु शक्तिवैकल्यादिति चेत् । तदयुक्तम् । यतः प्रतिबन्धकाभावो भावादेकान्तव्यतिरिक्तः कथं किञ्चित्कार्य कुर्यात् , कूर्मरोमराजीवत् । - જેન–એમ કહેવું યોગ્ય નથી. કારણ કે જે પ્રકારની અગ્નિથી દાહાદિ કાર્યની ઉત્પત્તિ થતી જોવાય છે, તે જ પ્રકારની અગ્નિથી જ્યારે મણિ (ચંદ્રકાંત
१ पञ्जिकाकारेण 'किन्तु' इति मूले नोपलव्धमिति गम्यत्वेन निर्देशः कृतः ।