________________
९६
श्रुतेरपौरुयपेत्वनिराकरणम् ।
[४.७
धार्तराष्ट्रा हंसाः सुराष्ट्रमण्डले न । अत्र धार्त्तराष्ट्रशब्देनौचित्येन हंसा एव, न तु धृतराष्ट्रभूपतितनयाः ॥ उक्तं च
“मल्लिकाख्यास्तु मलिनैर्धार्तराष्ट्रा सितेतरैः । कादम्बास्तु कलहंसाः पक्षैः स्युरिति धूसरैः ॥ १ ॥”
महाराष्ट्रे उष्ट्रिणः दौवारिका न तत्रोष्ट्राणामभावात् । यत्कौमारेति कौमारः कलापकः ।
ननु नायमित्यादि ॥ भूतार्थेति अतीतपदार्थप्ररूपकत्वात् । कार्य एवेति वार्त्तमानिके करणीये एव । अर्थोपलव्धिहेतुः प्रमाणमित्यङ्गीकारात् । अथात्रापीति साधूपास्याप्रसरूपे शब्दे । तस्मादिति कारणात् । अत्रेति शब्दे । अवगमादिति स्वाभिप्रायेण परिज्ञानात् । न पुनस्तत्रेति औपदेशकार्य कृतेऽवगमे । तस्येति उपदेशस्य । अन्यथेति प्रतिपादकत्वाभावे । तत्साध्यार्थेऽपीति प्रवृत्तिसाध्यपदार्थेऽपि । तत्साध्यार्थक्रियापीति प्रत्यक्ष साध्या या अर्थक्रिया सापि । अस्येति प्रत्यक्षस्य ।
तद्वदेवेति वाक्यवदेव प्रासांक्षीदिति प्रसज्यते स्म ।
\ यत्तु कर्त्रस्मरणं साधनम्, तदविशेषणं सविशेषणं वा वर्येंत ? प्राक्तनं तावत् पुराणकूपप्रासादारामविहारादिभिर्व्यभिचारि, तेषां कर्त्रस्मरणेऽपि पौरुपेयत्वात् । द्वितीयं तु सम्प्रदायाव्यच्छेदे सति कर्त्रस्मरणादिति व्यधिकरणासिद्धम् कर्त्रस्मरणस्य श्रुतेः अन्यत्राश्रये पुंसि वर्त्तनात् ।
"
अथापौरुपेयी श्रुतिः, सम्प्रदायाव्यवच्छेदे सत्यस्मर्यमाणकर्तृकत्वात्, आकाशवत् इत्यनुमानरचना यामनवकाशा व्यधिकरणासिद्धिः । मैवम् एवमपि विशेषणे सन्दिग्धासिद्धतापत्तेः । तथाहि आदिमतामपि प्रासादादीनां सम्प्रदायो व्यवच्छिद्यमानो विलोक्यते । अनादेस्तु श्रुतेरव्यवच्छेदी सम्प्रदायोऽद्यापि विद्यत इति मृतकमुष्टिबन्धमन्वकापत् । तथा च कथं न सन्दिग्धसिद्धं विशेषणम् ? विशेष्यमप्युभयासिद्धम्, वादिप्रतिवादिभ्यां तत्र कर्तुः स्मरणात् ।
ननु श्रोत्रियाः श्रुतौ कर्त्तारं स्मरन्तीति मृषोद्यम्, श्रोत्रियापादाः खल्वमी इति चेत् । ननु यूयमाम्नायमाम्नासिष्ट तावत्, ततो “यो वै वेदांश्च प्रहिणोति" इति "प्रजापतिः सोमं राजानमन्वसृजत् ततस्त्रयो वेदा अन्वसृजन्त" इति च स्वयमेव स्वस्य कर्त्तीरं स्मरयन्तीं श्रुतिं विश्रुतामश्रुतामिव गणयन्तो यूयमेव श्रोत्रियापसदाः किं न स्यात ? §૬ વેદના અપૌરુષેયત્વને સિદ્ધ કરવાને જે કર્તાનું અસ્મરણ એવે। હેતુ છે, તે વિશેષણ રહિત છે કે વિશેષણ સહિત ? વિશેષણ રહિત હા તા-એ હતુ પ્રાચીન કૂવા, પ્રાસાદ, આરામ, વિહાર આદિથી વ્યભિચારી છે. કારણ કે તે પ્રાચીન કૂવા આદિના કર્તાનું સ્મરણ નથી તે પણ તે પૌરુષેય-અનિત્ય છે. ખીજા પક્ષે એટલે કે હેતુમાં સ’પ્રદાયના અવિચ્છેદ્ય છતાં એવુ વિશેષણુ જોડો તે તે વ્યધિકરણાસિદ્ધ છે. કારણ કે-કર્તાનું અસ્મરણ તા શ્રૃતિથી ભિન્ન પુરુષરૂપ આશ્રયમાં રહે છે.