________________
४. ७)
· श्रुतेरपौरुषेयत्वनिराकरणम् । दिति यथा मृद्विकारत्वमप्रयोजकमित्यर्थः। लौकिकश्लोकादिविलक्षणमिति विशिष्टवर्णाद्यात्मकमित्यर्थः । विरुद्धमिति अपौरुषेयत्वसाधनात् । साधनशून्यमिति साधनेन लौकिक लोकादिविलक्षणविशिष्टवर्णपदवाक्यप्रकरणात्मकत्वाख्यहेतुना शून्यं कुमारसम्भवादिनिदर्शनम् , विशिष्टवर्णाद्यात्मकत्वाभावात् तस्येति भावः। तत्रैव साध्ये इति कुलालपूर्वकत्वे साध्ये। विशिष्टमृद्विकारत्ववदिति विशिष्टमृद्विकारत्वविरुद्धकुटदृष्टान्तवदिति विशिष्टमृद्विकारत्वं तत्र नास्त्यतः साधनशुन्यम् । नैतच्चतुरस्त्रमिति जैनो वक्ति । तन्मात्रमेवेति वर्णाद्यात्मकत्वमात्रम् । विशिवर्णाद्यात्मकस्यैवेति विशिष्टवर्णाद्यात्मकन्वं श्रुतौ नास्तीत्यर्थः ।
नांष्ट्रा इति राक्षसाः। त्वाष्ट्रारिराष्ट्रे इति इन्द्रराष्ट्रे स्वर्गे । धार्तराष्ट्रा इति काकाः । नोष्ट्रिण इति तत्रोष्ट्राभावात् । सविशेषस्येति दुःश्रवदुर्भणत्वादेः। क्वचिद्वैशिष्ट्यमिति अस्मत्कृतस्तुतावपि दुःश्रवदुर्भणत्वादयो विशेपा विद्यन्ते, एतावतैव नापौरुषेयत्वमिति ।
प्रजापतिर्वेति प्रजापतिरेव। इदमेकमासीदिति इदं जगत्प्रजापतिरेवासीदेकमिति वाक्यार्थः । तपस्तपनादिति पाठान्तरम् । स्वशब्देन वेदः । ननु नायमित्यादि मीमांसकः । भूतार्थामिधायकत्वादिति अधिगतार्थाभिधायकत्वात् । कार्य एव ह्यर्थे वाचां प्रामाण्यमिति । मीमांसकानां हि अनधिगतार्थाधिगन्तृप्रमाणमतस्तेषां विधिरेव वाक्यार्थः, अप्रवृत्तप्रवर्तनस्वभावत्वात् तस्य, भूतार्थानां त्वनुवादमात्रतया प्रामाण्यम् । कार्यान्वितेविति विधेयान्वितेषु । शक्त्यवगमादिति सामर्थ्यज्ञानात् । तदश्लीलमिति सूरिः । भूतार्थस्यापीति वारतवार्थस्यापि । अनापीति भूतार्थेऽपि । स तहत्यिादि हरिः। तथाविधोपदेशाश्रवणादिति 'तस्मादत्र प्रवर्तितव्यम्' इत्यादिरूप उपदेशः । तति औपदेशिकार्थकृतपक्षे । अस्येति उपदेशस्य। अन्यथाप्रवृत्ताविवेति यथा भवन्मते प्रवृत्ती प्रमाणानां प्रामाण्यं एवं तत्साध्यार्थेऽपि प्रामाण्य स्यात् । न चैतदिष्यते इति पराभिप्रायेण दृष्टान्तः । तत्साध्यार्थऽपीति क्रियादावपीत्यर्थः । अपेक्षावुद्धरिति 'इदं मदीयं ज्ञानं तदैव प्रमाणं यदार्थ परिच्छिनत्ति' इत्यपेक्षा । इयं चापेक्षार्थपरिच्छेदे परिपूर्णा भवति ।
यद्वाऽस्त्विति अहो मीमांसकः। वेदे कर्तृप्रतिपादकागमस्यापीति तत्रापि तत इमां पौरुषेयी विजानीया इत्यवगमस्य प्रतिभानात् ।।
(टि.) तदनुगुणामिति अभिधेयभावस्वभावानुरूपाम् । तदभावे इति पुरुषाभावे । इयमिति ग्रन्थवीथी कुतः कुतो भवा। तदात्मकमिति अभिधेयभावस्वभावम् । अत्रापीति पौरुपे वेदेपि ॥
अथ वर्णेत्यादि। जैन एव दृष्टान्तवच्चेतिपर्यन्तं परमाशङ्कते । चिकीर्पितमिति हेतूकृतं पूर्वापदिष्टत्वात् । विलक्षणमिति विशिष्ट मित्यर्थः । तदिति वर्णाद्यात्मकत्वम् । विरुद्धमिति साधनं विरुद्धमित्यर्थः । साधनशून्य मिति हेतुविकल्पश्च दृष्टांतः । तत्रैवेति वल्मी.. कस्य कुलालपूर्वकत्वे साध्ये ।। तन्मात्रमेवेति वर्णाद्यात्मकत्वमात्रमेव । नांष्ट्रा इति। त्वष्टा सूर्यस्तस्यापत्यं त्वाष्ट्रः कर्णः । तस्यारिरर्जुनः, तस्य राष्ट्रे हस्तिनापुर प्रतिवद्ध कुरुदेशे नाष्टा गिरिकन्दरानिवासिनो लोकलुण्टाका लोके 'नांठ' इति प्रसिद्धा न विद्यन्ते । भाष्ट्राभिधानविषयः। जना न अदंष्ट्रिणः, अपि तु प्रलम्बदंष्ट्रायुक्ताः । तत्र सर्वेपि जना दंष्ट्रला एव स्युरिति देशस्वभावः।