________________
श्रुतेरपौरुषेयत्वनिराकरणम् ।
[४. ७મીમાંસક–તમે જણાવી તે કેલાહલ વિષેની પ્રત્યક્ષ પ્રતીતિ શ્રુતિની અભિવ્યકિત-પ્રાદુર્ભાવ છે અને નહિ કે શ્રુતિની ઉત્પત્તિ વિષે
- જૈન–તે હંસાક્ષાદિ હસ્તમુદ્રા વિષે પણ અભિવ્યક્તિને કારણે આવી પ્રતીતિ કેમ નહિ થાય? માટે તે પણ નિત્ય થશે. અને વળી, આગળ ૯માં સૂત્રમાં) વર્ણની અભિવ્યક્તિનું ખંડન કરાશે તે પણ અહીં સમજી લેવું.
(प०) अनुभवानुचरणचतुरमिति अनुभवानुगमनदक्षम् । कतिपयभवविपयामिति परिगणीतभवविषयाम् । तत्रेति श्रुतेरपौरुषेयत्वे ।
एतेप्विति हेतुपु। हंसपक्षादिहस्तकेवपीति भरतशास्त्रप्रसिद्धेषु चतुःषष्टि. संख्येषु । इयमिति प्रतीतिः। तथेति अभिव्यक्तिसद्भावादेव । . (टि०) अनुभवेत्यादि ॥ प्रत्यक्षानुसरणनिपुणम् । तानविकीमिति तस्मिन्नेव भवे जन्मनि भावात्ताभविकी भवार्थे इकण् । सूत्रितेति न रचिता ॥ तन्न तति आनुपूर्वीरूपविकल्पतः श्रुतेरपौरुषेयत्वसिद्धौ ॥
नाप्यनुमानमित्यादि । तद्धीति अनुमानम् । खण्डिकेष्विति शिष्येषु । यजुःसामार्च इति अध्वर्यवो यजुर्वेदाध्यायिनः। उद्गातारः सामपाठप्रवीणाः, होतार ऋग्वेदोच्चारतत्पराः । तेन चेति प्रत्यक्षेण । इयं प्रतीतिरिति । कोलाहलकरणरूपा । 'हंसपक्षादीति भरतशास्त्र-- प्रसिद्धा हंसपक्षादयो हस्तकास्तेविति। इयमिति प्रतीतिः । कोलाहलकरणरूपा। तथेतीति अभिव्यक्तिसद्भावादेव । तेऽपीति हस्तका अपि ॥ वर्णव्यक्तीति वर्णाभिव्यञ्जक्रनिराकरणम् ।
६४ श्रुतिः पौरुषेयी, वर्णाद्यात्मकत्वात् , कुमारसंभवादिवत्-इत्यनुमानबाधः । . पुरुषो हि परिभाव्याभिधेयभावस्वभावं तदनुगुणां ग्रन्थवीथीं ग्रथ्नाति, तदभावे कौतस्कुतीय संभवेत् ? । यदि हि शङ्खसमुद्रमेघादिभ्योऽपूरुषेभ्योऽपि. कदाचित् तदात्मकं वाक्यमुपलभ्येत, तदाऽत्रापि संभाव्येत । न चैवम् । ........
६५ अथ वर्णाद्यात्मकत्वमात्रं हेतूचिकीर्षितं चेत् , तदानीमप्रयोजकम्, वल्मी-.. कस्य कुलालपूर्वकत्वे साध्ये मृद्विकारत्ववत् । अथ लौकिकश्लोकादिविलक्षणं तत् । तर्हि । विरुद्धम्, साधनशून्यं च कुमारसंभवादिनिदर्शनम्, तत्रैव साध्ये विशिष्टमृद्विकारत्व- .. वत्, कटदृष्टान्तवच्चेति चेत् । नैतच्चतुरस्रम् । यतस्तन्मात्रमेव हेतुः, न चाप्रयोजकम् विशिष्टवर्णाद्यात्मकत्वस्यैव क्वाप्यसंभवाद् । दुःश्रव-दुर्भणत्वादेस्तु श्रुतिविशेषस्य- .... ... "नांष्ट्रास्त्वाष्ट्रारिराष्ट्रे न भ्राष्ट्र नादंष्ट्रिणो जनाः। : ...
धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे तु नोष्ट्रिणः ॥ १ ॥" : इत्यादौ लौकिकश्लोके सविशेषस्य सद्भावात् । अभ्यधिष्महि च-......
"यत् कौमारकुमारसंभवभवाद् वाक्यान्न किञ्चित् क्वचित् ।
वैशिष्टयं श्रुतिपु स्थितं तत इमाः स्युः कर्तृशून्याः कथम् ॥” इति ।
"प्रजापतिर्वेदमेकमासीत्, नाहरासीत् , न रात्रिरासीत्, स तपोऽतप्यत, तस्मात्तपनः, तपनाच्चत्वारो वेदा मजायन्त" इति स्वकर्तृप्रतिपादकागमवाधः ।......