SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ( 742 ) कवीन्द्रसीमानमितै यदुक्तं गणेश्वराद्यैरपि विस्तरेण । तत्पादपद्मद्वयभाक्तिशक्त्या संक्षिप्य तद्वक्तुमयं श्रमोनः ॥ ४ ॥ द्वीपोऽथजम्बूपपदोऽस्ति मध्ये द्वीपांतराणामिव पार्थिवानाम् । यो वाहिनीनाथवृतःसुवृत्तो नित्यं जिगीषुप्रतिमश्चकास्ति ॥ ५ ॥ End.-राज्यं प्राज्यमुदस्य निर्ममतमं तप्त्वा तपो दुश्चरं ध्यानानौ सकला विकर्मसमिधो हुत्वाप यः केवलम् । यावद्ज्ञेयविसर्पिविश्वकरणग्रामातिगं निश्चलं देयाद्वःपदमव्ययं स भगवान् सार्वोऽनिरुद्धो विभुः ॥ ६६ ॥ इति श्री सिन्धुराजसत्तमहामहत्तम श्री पप्पटगुरोः महासेनाचार्यकृते प्रद्युम्नचरिते चतुर्दशः सर्गः ॥ १४ ॥ ग्रंथान, २३७५ (प्रशस्ति) श्री लाटवर्गटनभस्तलपूर्णचन्द्रः ___ शास्रार्णवांतगसुधीस्तपसां निवासः । कान्ताकलावपि न यस्य शरैविभिन्न ___ स्वान्तं वभूव स मुनिर्जयसेननामा ॥ १ ॥ तीर्णागमांबुधिरजायत तस्य शिप्यः श्रीमद्गुणाकरगुणाकरसेनसूरि र्यों वृत्तबोधतपसा यशसा च नूनं प्रापत्परामनुपमामुपमांमुनीनाम् ॥ २ ॥ तच्छिष्यो विदिताखिलोरुसमयो वादी च वाग्मी कविः । शब्दंब्रह्मविचित्रधामयशसां मान्यां सतामग्रणीः ॥ आसीत् श्री महसेनसूरिरनघःश्रीमुंजराजार्चितः । सीमादर्शनबोधवृत्ततपप्तां भव्याब्जिनीबांधवः ॥ ३ ॥ श्रीसिन्धुराजस्य महत्तमेन श्रीपप्पटेनाचितपादपद्मः । चकार तेनाभिहितःप्रबंध स पावनं निष्ठितमंगजस्थ ॥ ४ ॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy