________________
(746 )
(Commentary.) इमामष्टाश्वासीमसकृदनुतं त्रिस्तिचतुरै
निबंधैष्टीकाये : स्थविरवचनैरप्यवितथै ः। कृतां संवच्योचि : शिववचनमीक्षत इह ये
प्रत्यक्षार्थाशाधरपुरुषदूर पदमिमे ॥ २० ॥ इत्याशाधरानुस्मृतग्रन्थसंदर्भ मूलाराधनादर्पणे पदप्रमेयार्थप्रकाशीकरणप्रवणेऽष्टम आश्वास: ॥छ०॥
अथ प्रारब्धनिर्विघ्नपरिसमाप्तिप्रमोदभरानुविद्धभक्तिपरवशमानसो प्रन्थकृत् परमाराध्यं भगवतीमाराधनमभीष्टोनुमिदं वृत्तदशकमपाठीत् ॥छ०॥
.... ॥१०॥ इति सिद्धस्तवः ।। अथ प्रशस्तिः ।
श्रीमानस्तिसपादलक्षविषयः शाकंवरीभूषण
स्तत्र श्रीरतिधाममण्डलकरं नामाम्ति दुर्ग महत् श्रीरल्यामदपादि तत्र विमलव्याघ्ररवालान्वया
च्छीसलक्षणतो जिनेन्द्रसमयश्रद्धालुराशाधरः ॥ १॥ सरस्वत्यामिवात्मानं सरस्वत्यामजीजनत् ।
य :पुत्रंछाहडं गुण्यं गंजेतार्जुनभूपतिम् ॥ २॥ व्याघ्ररवालवरवंशसराजहस :
कान्यामृताघ-रस-पान-सुतृप्तगात्र । सल्लक्षणस्य तनयो नयविश्वचक्ष
राशाधरो विजयतां कलिकालिदासः ॥३॥ इत्युदयकीर्तिमुनिना कविसुहृदा योऽभिनंदितः प्रीत्या ॥ प्रज्ञापुंजोऽसीति च योऽभिहितो मदनकीर्तियतिपतिना ॥ ४॥ म्लेच्छेशन सपादलक्षविषये व्याप्ते सुवृत्तक्षति
त्रासाद्विंध्यनरेन्द्रदो : परिमलस्फूर्जत्रिवर्गोजसि । प्राप्तो मालवमंडले बहुपरीवार : पुरीमावसद्
यो धारामपठन्जिनप्रमितवाक्शास्त्रं महावीरतः ॥ ५॥
(Incomplete manuscript.)