________________
गणितसारसाहः
अत्रोद्देशकः । 'एकादिनवान्तानां वर्गगतानां वदाशु मे मूलम् । अतुविषयलोचनानां द्रव्यमहीधेन्द्रियाणाञ्च ।। ३७ ।। एकाग्रषष्टिसमधिकपञ्चशतोपेतषट्सहस्राणाम् । षडर्गपञ्चपञ्चकषण्णामपि मुलमाकलय ॥ ३८ ॥ ' द्रव्यपदार्थनयाचललेख्यालबध्यब्धि निधिनयाब्धीनाम् ।
शशिनेत्रेन्द्रिययुगनयजीवानाश्चापि किं मूलम् ॥ ३९ ॥ चन्द्राब्धिगतिकषायद्रव्यर्तहुताशनतराशीनाम् । विधुलेख्येन्द्रियहिमकरमुनिगिरिशशिनां च मूलं किम् ॥ ४० ॥ द्वादशशतस्य मूलं षण्णवतियतस्य कथय सश्चिन्त्य । शतषट्कस्यापि सरवे पश्चकवर्गण युक्तस्य ।। ४१ ॥
भाभकर्माम्बरशङ्कराणां सोमाक्षिवैश्वानरभास्कराणाम् । चन्द्र बाणाब्धिगतिहिपानामाचक्ष्व
मूलं गणकाग्रणीस्त्वम् ॥ ४२॥ इति परिकर्मविधौ चतुर्थ वर्गमूलं समाप्तम् ।।
घन: । पश्चमे घनपरिकर्मणि करणसूत्रं यथा --- त्रिसमाहतिर्घनस्स्यादिष्टोनयुतान्यराशिघातो वा । अल्पगुणितष्टकृत्या कलितो बृन्देन चेष्टस्य ॥ ४३ ॥ इष्टादिहिगणेष्टप्रचयेष्टपदान्वयोऽथ वेष्टकृतिः। ठयेकेष्टहतैकादिद्विचयेष्टपदै ययुक्ता वा ॥ ४४ ॥ 'एकादिचयेष्टपदे पूर्व राशि परेण सङ्गणयेत् । गुणितसमासस्त्रिगुणश्चरमेण युतो घनो भवति ॥ ४५ ॥ Pand M वर्गगतानो शीघ्रं रूपादिनवावसानराशीनाम् । मूलं कथय सखे त्वं.
'M नब.
This stanza is not found in P.