________________
114
गणितसारसाहहः
यवाकारमर्दलाकारपणवाकारवजाकाराणां क्षेत्राणां व्यावहारिक फलानयनसूत्रम्
यवमुरजपणवशक्रायुधसंस्थानप्रतिष्ठितानां तु । मुरवमध्यसमासार्धं त्वायामगुणं फलं भवति ॥ ३२ ॥ "
अत्रोद्देशकः । यवसंस्थानक्षेत्रस्यायामोऽशीतिरस्य विष्कम्भः । मभ्यश्चत्वारिंशत्फलं भवत्किं ममाचक्ष्व ॥ ३३ ॥ आयामोऽशीरियं दण्डा मुखमस्य विशतिमध्ये । चत्वारिंशत्क्षेत्रे मृदङ्गसंस्थानके ब्रूहि ॥ ३४ ॥ पणवाकारक्षेत्रस्यायामः सप्तसप्ततिर्दण्डाः । मुरवयोर्विस्तारोऽष्टी मध्ये दण्डास्तु चत्वारः ॥ ३५ ॥ बजाकतेस्तथास्य क्षेत्रस्य षडग्रनवतिरायामः ।
मध्ये सूचिमुरवयोस्त्रयोदश व्यंशसंयुता दण्डाः ।। ३१ ॥ उभयनिषेधादिक्षेत्रफलानयनसूत्रम्
व्यासात्खायामगुणादिकम्भार्धपदीर्घमुत्सृज्य । त्वं वद निषेधमुभयोस्तदर्धपरिहीणमेकस्य ॥ ३७ ॥
अत्रोद्देशकः । आयामः षट्त्रिंशद्विस्तारोऽष्टादशैव दण्डास्तु । उभयनिषेधे किं फलमेकनिषेधे च किं गणितम् ॥ ३८ ॥ बहुविधवजाकाराणां क्षेत्राणां व्यावहारिकफलानयनसूत्रम्-. रज्ज्वर्धकतिव्यशो बाहुविभक्तो निरेकबाहुगुणः । सर्वेषामश्रवा फलं हि बिम्बान्तरे चतुर्थाशः ॥ ३९ ।'