________________
क्षेत्रगणितव्यवहारः.
111 द्विसमत्रिभुनक्षेत्रस्यायामः सप्तसप्ततिर्दण्डाः । विसारो द्वाविंशतिरथ हस्ताभ्यां च सम्मिश्राः ॥ ९ ॥ त्रिभुनक्षेत्रस्य भुजस्त्रयोदश प्रतिभुजस्य पश्चदश । ' भूमिश्चतुर्दशास्य हि दण्डा विषमस्य किं गणितम् ॥ १० ॥ गजदन्तक्षेत्रस्य च पृष्ठेऽष्टाशीतिरत्र सन्दृष्टाः । द्वासप्ततिरुदरे तन्मूलेऽपि त्रिंशदिह' दण्डाः ॥ ११ ॥ क्षेत्रस्य दण्डषष्टिर्बाहप्रतिबाहकस्य गणयित्वा । समचतुरश्रस्य त्वं कथय सम्वे गणितफलमाशु ॥ १२ ॥ आयतचतुर श्ररुप व्यायामः सैकषष्टिरिह दण्डाः । विस्तारो द्वात्रिंशद्यवहारं गणितमाचक्ष्व ॥ १३ ॥ दण्डास्तु सप्तषष्टिर्दिसमचतुर्बादकस्य चायामः । - व्यासश्चाष्टत्रिंशत् क्षेत्रस्यास्य त्रयस्त्रिंशत् ॥ १४ ॥ क्षेत्रस्याष्टोत्तरशतदण्डा बाहवयं मरवे चाष्टौ । हस्तैस्त्रिभिर्युताम्तत्रिसमचतुर्बाहुकस्य वद गणक |॥ १५ ॥ विषमक्षेत्रस्याप्टत्रिंशद्दण्डाः क्षितिर्मुरवे द्वात्रिंशत् । पभाशत्प्रति बाहुः पटिम्वन्यः किमस्य चतुरश्रे ॥ १६ ॥ परिघांदरस्तु दण्डास्त्रिंशन्टष्ठं शतत्रयं दृष्टम् । नवपश्चगुणां व्यासा नेमिक्षेत्रस्य किं गणितम् ॥ १७ ॥ हस्ती ही विष्कम्भः पृष्ठेऽष्टापटिरिह च सन्दृष्टाः । उदरे तु द्वात्रिंशद्वालेन्दोः किं फलं कथय ॥ १८ ॥
JThe reading in both BandMin विशातः utnetha in erronsomitin porrooted into a man to out the requirements of the metro aldo.
• Broads देक for प्रति