________________
षष्ठः
क्षेत्रगणितव्यवहारः. सिद्धेभ्यो निष्ठितार्थेभ्यो वरिष्ठेभ्यः कृतादरः ।
अभिप्रेतार्थसिद्धयर्थ नमस्कुर्वे पुनः पुनः ॥ १ ॥ इतः परं क्षेत्रगणितं नाम षष्ठगणितमुदाहरिष्यामः । तद्यथा
क्षेत्रं निनप्रणीतं फलाश्रयाद्व्यावहारिकं सूक्ष्ममिति । भेदाद् द्विधा विचिन्त्य व्यवहारं स्पष्टमेतदभिधास्ये ॥ २ ॥ त्रिभुजचतुर्भुजवत्तक्षेत्राणि स्वस्वभेदभिन्नानि । गणितार्णवपारगतैराचार्यैस्सम्यगुक्तानि ॥ ३ ॥ त्रिभुज त्रिधा विभिन्नं चतुर्भुजं पञ्चधाष्टधा वृत्तम् । अवशेषक्षेत्राणि ह्येतेषां भेदभिन्नानि ॥ ४ ॥ त्रिभुजं तु समं द्विसमं विषमं चतुरश्रमाप समं भवति । द्विद्विसमं द्विसमं स्यात्रिसमं विषमं बुधाः प्राहुः ॥ ५ ॥ समवृत्तमर्धवृत्तं चायतवृत्तं च कम्बुकावृत्तम् । निनोन्नतं च वृत्तं बहिरन्तश्चक्रवालवृत्तं च ॥ १ ॥
व्यावहारिकगणितम् । त्रिभुजचतुर्भुजक्षेत्रफलानयनसूत्रम्त्रिभुजचतुर्भुजबाहुप्रतिबाहुसमासदलहतं गणितम् । नेमे जयुत्यर्थं व्यासगुणं तत्फलार्धमिह बालेन्दोः ॥ ७ ॥
अत्रोद्देशकः । त्रिभुजक्षेत्रस्याष्टौ बाहुप्रतिबाहुभूमयो दण्डाः । तयावहारिकफलं गणयित्वाचक्ष्व मे शीघम् ॥ ८ ॥