________________
गणितसारसहिः
अत्रोद्देशकः। पश्चकशतप्रयोगे द्वादशमासैर्धनं प्रयुक्त चेत् । साष्टा चत्वारिंशन्मिश्रं तन्मूलवृद्धी के ॥ २२ ॥ पुनरपि मूलादिमिश्राविभागसूत्रम्इच्छाकालफलनं स्वकालमूलेन भाजितं सैकम् । सम्मिश्रस्य विमक्तं लब्धं मूलं विजानीयात् ॥ २१ ॥
अत्रोद्देशकः । सार्धद्विशतकयोगे मासचतुषण किमपि धनमेकः । दत्वा मिश्रं लभते कि मूल्यं स्यात् त्रयस्त्रिंशत् ॥ २४ ॥ कालद्धिमिश्रविभागानयनसूत्रम्मूलं स्वकालगुणितं स्वफलेच्छाभ्यां हृतं ततः कृत्वा । सकं तेनाप्तस्य च मिश्रस्य फलं हि वृद्धिः स्यात् ॥१५॥
अत्रोद्देशकः । पञ्चकशतप्रयोगे फलार्थिना योजितैव धनषष्टिः । कालः खवृद्धिसहितो विंशतिरत्रापि कः कालः ॥ २६ ॥ अर्धत्रिकसप्तत्याः सार्धाया योगयोजितं मूलम् । पश्चोत्तरसप्तशतं मिश्रमशीतिः स्वकालवृद्ध्योहि ॥ २७ ॥ व्यर्धचतुषाशीत्या युक्ता मासद्वयेन साधैन ।
मूलं चतुश्शतं षटत्रिंशन्मिश्रं हि कालवृद्ध्योर्हि ॥ २८ ॥ मूलकालमिअविभागानयनसूत्रम्
वफलोद्धृतप्रमाणं कालचतुर्वृद्धिताडितं शोभ्यम् । मिश्रकृतस्तन्मूलं मिश्रे क्रियते तु सङ्क्रमणम् ॥२९॥