________________
मिश्रकव्यवहारः
67
अत्रोद्देशकः । सप्तार्धशतकयोगे वृद्धिस्त्वष्टायविंशतिरशीत्या । कालेन केन लब्धा कालं विगणय्य कथय सरवे ॥ १५ ॥ विंशतिषट्शतकस्य प्रयोगतः सप्तगणषष्टिः । वृद्धिरपि चतुरशीतिः कथय सरवे कालमाशु त्वम् ॥ १६ ॥ षटूशतेन हि युक्ताः षण्णवतिर्दृद्धिरत्र सन्दृष्टा । सप्तोत्तरपश्चाशत् त्रिपञ्चभागश्च कः कालः ॥ १७ ॥ भाण्डप्रतिभाण्डसूत्रम् - भाण्डस्वमूल्यभक्तं प्रतिभाण्डं भाण्डमूल्यसङ्गणितम् । स्वेच्छामाण्डाभ्यस्तं माण्डप्रतिभाण्डमूल्यफलमेतत् ॥ १८ ॥
__ अत्रोद्देशकः । कीतान्यष्टौ शुण्ठ्याः पलानि षभिः पणैः सपादांशैः । पिप्पल्याः पलपञ्चकमथ पादोनैः पणैवभिः ॥ १९ ॥ शुण्ठ्याः पलैश्च केनचिदशीतिभिः कति पलानि पिप्पल्याः । क्रीतानि विचिन्त्य त्वं गणिनविदाचक्ष्व मे शीघ्रम् ॥ २० ॥ इति मिश्रकव्यवहारे पश्चराशिकविधिः समाप्तः ॥
दृद्धिविधानम् ॥ इतः परं मिश्रकव्यवहारे डिविधानं व्याख्यास्यामः । मूलद्धिमिश्रविभागानयनसूत्रम्-- रूपेण कालवृद्ध्या युतेन मिश्रस्य मागहारविधिम् । कृत्वा लब्धं मूल्यं वृद्धिभ्लोनमिश्रधनम् ॥ २१ ॥
Both Mand Bhave the rroneoun reading कथित स्वशातिभिः सर पलानि पिप्पत्या:.