________________
६६
द्रव्यसंग्रहवृत्तिः । गाथा - ३६ । ३७
पूर्विका निर्जरा सैव ग्राह्या । या पुनरज्ञानिनां निर्जरा सा गजस्नानवन्निष्फला । यतः स्तोकं कर्म निर्जरयति बहुतरं बध्नाति तेन कारणेन सा न ग्राह्या । यातु सरागसद्द्दष्टानां निर्जरा सा यद्यप्यशुभकर्मविनाशं करोति तथापि संसारस्थितिं स्तोकां कुरुते । तद्भवे तीर्थकर प्रकृत्यादिविशिष्टपुण्यबन्धकारणं भवति पारम्पर्येण मुक्तिकारणं चेति । वीतरागसदृष्टीनां पुनः पुण्यपापद्वयविनाशे तद्भवेऽपि मुक्तिकारणमिति । उक्तं च श्रीकुन्दकुन्दाचार्यदेवै: “जं अण्णाणी कम्मं खवेदि भवसदसहस्सकोडोहिं । तं गाणी तिहिं गुत्तो खवेदि उस्सासमित्ते । ” कश्चिदाह - सद्दृष्टीनां वीतरागविशेषणं किमर्थं रागादयो हेया मदीया न भवन्तीति भेदविज्ञाने जाते सति रागानुभवेऽपि ज्ञानमात्रेण मोक्षो भवतीति । तत्र परिहारः । अन्धकारे पुरुषद्वयम् एकः प्रदीपहस्तस्तिष्ठति । अन्यः पुनरेकः प्रदीपरनिनिष्ठति । स च कूपे पतनं सर्पादिकं वा न जानाति तम्य विनाशे दोषो नास्ति । यस्तु प्रदीपहस्तस्तस्य कूपपतनादिविनाशे प्रदीपफलं नास्ति । यस्तु कूपपतनादिकं त्यजति तस्य प्रदीपफलमस्ति । तथा कोऽपि रागादयो या मदीया न भवन्तीति भेदविज्ञानं न जानाति स कर्मणा बध्यते तावत् अन्यः कोऽपि रागादिभेदविज्ञाने जातेऽपि यावतांशेन रागादिकमनुभवति तावतांशेन सोऽपि बध्यत एव, तस्यापि रागादिभेदविज्ञानफलं नास्ति । यस्तु रागादिभेदविज्ञाने जाते सति रागादिकं त्यजति तस्य भेदविज्ञानफलमस्तीति ज्ञातव्यम् । तथा चोक्तं "चक्खुस्स दंसणस्स य सारो सप्पादिदोसपरिहारो । चक्खू . होदि णिरत्थं दट्ठूण विलेपडंतस्स” ॥ ३६ ॥ एवं निर्जराव्याख्याने सूत्रेणैकेन चतुर्थस्थलं गतम् !
प्रथमोक्षतत्त्वमावेदयति ।
,
व्याख्या। यद्यपि सामान्येन निरवशेषनिराकृतकर्ममलकलङ्कस्याशरीरस्यात्मन आत्यन्तिकस्वाभाविकाचिन्त्याद्भुतानुपमसकलविमल केवलज्ञानाद्यनन्तगुणास्पदमवस्थान्तरं मोक्षो भण्यते तथापि विशेषेण भावद्रव्यरूपेण द्विधा भवतीति वार्त्तिकम् । तद्यथा – “ओ स भावमोक्खा" यो ज्ञातव्यः स भावमोक्षः । स कः "अप्पणो हु परिणामो" निश्चयरत्नत्रयात्मक कारणसमयसाररूपो "हु" स्फुटमात्मनः परिणामः । कथंभूतः " सव्वस्स कम्मणो जो खयहेदू” सर्वस्य द्रव्यभावरूपमोहनीयादिघातिचतुष्टयकर्मणो यः क्षयहेतुरिति । द्रव्यमोक्षं