________________
द्रव्यसंग्रहवृत्तिः । गाथा-३५। ३६ निश्चयरत्नत्रयस्य प्रतिपादकानि तानि पुण्यपापद्वयसंवरकारणानि भवन्तीति ज्ञातव्यम् । अत्राह सोमनामराजश्रेष्ठो । भगवन्नेतेषु ब्रतादिसंवरकारणेषु मध्ये संवरानुप्रेक्षैव सारभूता, सा चैव संवरं करिष्यति किं विशेषप्रपञ्चेनेति । भगवानाह–त्रिगुप्तिलक्षणनिर्विकल्पसमाधिस्थानां यतीनां तथैव पूर्यते तत्रासमर्थानां पुनर्बहुप्रकारेण संवरप्रतिभूतो मोहो विज़म्भते तेन कारणेन व्रतादिविस्तरं कथयन्त्याचार्याः ॥३५॥ "असिदिसदं किरियाणं अकिरियाणं तु होइ चुलसीदी। सत्तठठी अण्णाणी वेणइया हुंति वत्तीसा । जोगा पयडिपदेसा ठिदिअणुभागा कसायदो हुति । अपरिणिदुच्छिन्नेसु यवंधठिठदिकारखं नत्त्यि ।" एवं संवरतत्त्वव्याख्याने सूत्रद्वयेन तृतीयं स्थलं गतम् ।।
अथ सम्यग्दृष्टिजीवस्य संवरपूर्वकं निर्जरातत्त्वं कथयति । व्याख्या । ‘णेया' इत्यादिव्याख्यानं क्रियेत-"ऐया” ज्ञातव्या का "णिज्जरा" भावनिर्जरा । सा का निर्विकारपरमचैतन्यचिच्चमत्कारानुभूतिसञ्जातसहजानन्दस्वभावसुखामृतरसास्वादरूपो भाव इत्यध्याहारः । “जेण भावेण" येन भावेन जीवपरिणामेन किं भवति “सडदि" विशीर्यते पतति गलति विनश्यति किं कर्तृ “कम्मपुग्गलं' कर्मारिविध्वंसकखकीयशुद्धात्मनो वितक्षणं कर्मपुद्गलद्रव्यं कथंभूतं "भुत्तरसं" स्वोदयकालं प्राप्य सांसारिकसुखदुःखरूपेण भुक्तरसं दत्तफलं केन कारणभूतेन गलति “जह कालेण' स्वकालपच्यमानाम्रफलवत्सविपाकनिर्जरापेक्षया, अभ्यन्तरे निजशुद्धात्मसंवित्तिपरिणामस्य बहिरङ्गसहकारिकारणभूतेन काललब्धिसंज्ञेन यथाकालेन न केवलं यथाकालेन “तवेण य” अकालयच्यमानानामाम्रादिफलवदविपाकनिर्जरापेक्षया अभ्यन्तरेण समस्तपरद्रव्येच्छानिरोधलक्षणेन बहिरङ्गेणान्तस्तत्त्वसंवित्तिसाधकसंभूतेनानशनादिद्वादशविधेन तपसा चेति "तस्सडणं" कर्मणो गलनं यच्च सा द्रव्यनिर्जरा । ननु पूर्व यदुक्तं 'सडदि' तेनैव द्रव्यनिर्जरा लब्धा पुनरपि सडनं किमर्थ भणितम् ? तत्रोत्तरं तेन सडदिशब्देन निर्मलात्मानुभूतिग्रहणभावनिर्जराभिधानपरिणामस्य सामर्थ्यमुक्तं न च द्रव्यनिर्जरेति । "इदि" इति द्रव्यभावरूपेण निर्जरा द्विविधा भवति ॥
अत्राह शिष्यः-सविपाकनिर्जरा नरकादिगतिष्वज्ञानिनामपि दृश्यते सज्ञानिनामेवेति नियमो नास्ति । तत्रोत्तरं-अत्रैव मोक्षकारणं या संवर