________________
द्रव्यसंग्रहवृत्तिः । गाथा – ३५
धातकीखण्डकुलपर्वतापेक्षया द्विगुणेो विष्कम्भ आयामश्च । उत्सेधप्रमाणं पुनर्दक्षिणभागे विजयार्धपर्वते योजनानि पञ्चविंशतिः, हिमवति पर्वते शतं, महाहिमवति द्विशतं, निषधे चतुःशतं तथेोत्तरभागे च । मेरुसमीपगजदन्तेषु शतपञ्चकं, नदीसमीपे वक्षारेषु चान्त्यनिषधनीलसमीपे चतुःशतं च, शेषपर्वतानां च मेरु ं त्यक्त्वा यदेव जम्बूद्वीपे भणितं तदेवार्धतृतीयद्वीपेषु च विज्ञ - यम् । तथा नामानि च क्षेत्रपर्वतनदीदेशनगरादीनां तान्येव । तथैव क्रोशद्वयोत्सेधा पञ्चशतधनुर्विस्तारा पद्मरागरत्नमयो वनादीनां वेदिका सर्वत्र समानेति । अत्रापि चक्राकारवत्पर्वता रविबर संस्थानानि क्षेत्राणि ज्ञातव्यानि । मानुषेोत्तरपर्वतादभ्यन्तरभाग एव मनुष्यास्तिष्ठन्ति न च बहिर्भागे । तेषां च जघन्थजीवितमन्तमुळे हूत्त 'प्रमाणम्, उत्कर्षेण पल्यत्रयं, मध्ये मध्यमविकल्पा बहवस्तथा तिरश्चां च । एवमसंख्येयद्वीपसमुद्रविस्तीर्णतिर्यग्लोकमध्ये ऽर्धतृतीयद्वीपप्रमाणः संक्षेपेण मनुष्यलोको व्याख्यातः ॥
अथ मानुषोत्तरपर्वतसकाशाद्बहिर्भागे स्वयम्भूस्मणद्वीपार्ध परिचिप्य योऽसौ नागेन्द्रनामा पर्वतस्तस्मात्पूर्वभागे ये संख्यातीता द्वीपसमुद्रास्तिष्ठन्ति तेषु यद्यपि व्यन्तरा निरन्तरा इति वचनाद् व्यन्तर देवावासास्तिष्ठन्ति तथापि फ्ल्यप्रमाणायुषां तिरश्चां संबन्धिनी जघन्यभेोगभूमिरिति ज्ञ ेयम् । नागेन्द्रपर्वताद्बहिर्भागे स्वयम्भूरमणद्वीपार्धे समुद्रे च पुनर्विदेहवत्सर्वदैव कर्मभूमिश्चतुर्थकालश्च । परं किन्तु मनुष्या न सन्ति । एवमुक्तलक्षणतिर्यग्लोकस्य वदनन्तरं मध्यमभागवर्त्तिनो मनुष्यलोकस्य च प्रतिपादनेन संक्षेपेण मध्यमलोकव्याख्यानं समाप्तम् । अथ मनुष्यलेोके द्विहीनशतचतुष्टयं तिर्यग्लोके तु नन्दीश्वरकुण्डल रुचकाभिधानद्वीपत्रयेषु क्रमेण द्विपश्वाशचतुष्टयचतुष्टयसंख्याश्चाकृत्रिमा स्वतन्त्र जिनगृहा ज्ञातव्याः ॥
ऊर्ध्व ज्योतिर्लोकः कथ्यते । तद्यथा - चन्द्रादित्यग्रहनक्षत्राणि प्रकीर्णतारकाश्चेति ज्योतिष्कदेवाः पञ्चविधा भवन्ति । तेषां मध्येऽस्माद्भूमितलादुपरि नवत्यधिकसप्तशतयोजनान्याकाशे गत्वा तारकविमानाः सन्ति, ततोऽपि योजनदशकं गत्वा सूर्यविमानाः, ततः परमशीतियोजनानि गत्वा चन्द्रविमानाः, ततोऽपि त्रैलोक्यसारकथितक्रमेण योजनचतुष्टयं गते अश्विन्यादिनक्षत्रविमानाः, ततः परं योजनचतुष्टयं गत्वा बुधविमानाः, ततः परं योजनत्रयं गत्वा शुक्रकि
५७