SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-३५ खण्डपञ्चकमार्यखण्डं चेति षट् खण्डानि जातानि । तथैव तेषु द्वात्रिंशत्क्षेत्रेषु गङ्गासिन्धुसमाननदीद्वयेन विजयार्धपर्वतेन च प्रत्येकं षट्खण्डानि ज्ञातव्यानि । अयं तु विशेषः । एतेषु सर्वदैव चतुर्घकालादिसमानकालः, उत्कर्षेण पूर्वकोटिजीवितं, पञ्चाशच्चायोत्सेधश्चेति विज्ञ यम् । पूर्वप्रमाणं कथ्यते । “पुवस्स हु परिमाणं सदर खलु सदसहस्सकोडीउ । छप्पण्णं च सहस्सा बोधव्वा वासगणनाउ ॥” इति संक्षेपेण जम्बूद्वीपव्याख्यानं समाप्तम् ।। ___ तदनन्तरं यथा सर्वद्वीपेषु सर्वसमुद्रेषु च द्वीपसमुद्रमर्यादाकारिका योजनाष्टकोत्सेधावनवेदिकास्ति तथा जम्बूद्वीपेऽप्यस्तीति विज्ञ यम् । तद्बहिर्भागे योजनलक्षद्वयवलयविष्कम्भागकमथितषोडशसहस्रयोजनजलोत्सेधाद्यनेकाश्चर्यसहितो लवणसमुद्रोऽस्ति । तस्मादपि बहिर्भागे योजनलक्षचतुष्टयवलयविष्कम्भो धातकीखण्डद्वीपोऽस्ति । तत्र च दक्षिणभागे लवणोदधिकालोदधिसमुद्रद्वयवेदिकास्पर्शी दक्षिणोत्तरायामःसहस्रयोजनविष्कभः शतचतुष्टयोत्सेध इक्ष्वाकारनामपर्वतोऽस्ति । तथोत्तरविभागेऽपि । तेन पर्वतद्वयेन खण्डीकृतं पूर्वापरधातकीखण्डद्वयं ज्ञातव्यम् । तत्र पूर्वधातकीखण्डद्वीपमध्ये चतुरशीतिसहस्रयोजनोत्सेधः सहस्रयोजनावगाहः क्षुल्लकमेरुरस्ति । तथा पश्चिमधातकीखण्डेऽपि । यथा जम्बूद्वीपमहामेरौ भरतादिक्षेत्रहिमवदादिपर्वतगङ्गादिनदीपद्मादिह्रदानां दक्षिणोत्तरेण व्याख्यानं कृतं तथात्र पूर्वधातकीखण्डमेरौ पश्चिमधातकीखण्डमेरौ च ज्ञातव्यम् । अत एव जम्बूद्वीपापेक्षया संख्यां प्रति द्विगुणानि भवन्ति भरतक्षेत्राणि, न च विस्तारायामापेक्षया । कुलपर्वताः पुनर्विस्तारापेक्षयैव द्विगुणा नत्वायाम प्रति । तत्र धातकीखण्डद्वीपे यथा चक्रस्यारास्तथाकाराः कुलपर्वता भवन्ति । यथा चाराणां विवराणि छिद्राणि मध्यान्यभ्यन्तरे सङ्कीर्णानि बहिर्भागे विस्तीर्णानि तथा क्षेत्राणि ज्ञातव्यानि ॥ ___ इत्थंभूतं धातकीखण्डद्वोपमष्टलक्षयोजनवलयविष्कम्भः कालोदकसमुद्रः परिवेष्ट तिष्ठति । तस्माद्बहिर्भागे योजनलक्षाष्टकं गत्वा पुष्करद्वीपस्य वलयाकारेण चतुर्दिशाभागे मानुषोत्तरनामा पर्वतस्तिष्ठति । तत्र पुष्करार्धेऽपि धातकीखण्डद्वीपवहक्षिणोत्तरेणेवाकारनामपर्वतद्वयं पूर्वापरेण क्षुल्लकमेरुद्वयं च। तथैव भरतादिक्षेत्रविभागश्च बोद्धव्यः । परं किन्तु जम्बूद्वीपभरतादिसंख्यापेक्षया भरतक्षेत्रादिद्विगुणत्वं न च धातकीखण्डापेक्षया । कुलपर्वतानां तु
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy