________________
द्रव्यसंग्रहवृत्तिः । गाथा-३५ भवन्ति ? “णिरयादो णिस्सीरिदो एरतिरएकम्मसण्णिपज्जत्तो। गव्वभवे उप्पजदि सत्तमणिरयादुतिरिएव " ॥
इदानीं नारकदुःखानि कथ्यन्ते । तद्यथा-विशुद्धज्ञानदर्शनस्वभावनिजपरमात्मतत्त्वसम्यकश्रद्धानज्ञानानुष्ठानभावनोत्पन्ननिर्विकारपरमानन्दैकलक्षणसु - खामृतरसास्वादरहितैः पञ्चेन्द्रियविषयसुखास्वादलम्पटैमिथ्यादृष्टिजीवैर्यदुपार्जितं नरकायुर्नरकगत्यादिपापकर्म तदुदयेन नरके समुत्पद्य पृथिवीचतुष्टये तीव्रोष्णदुःखं, पञ्चम्यां पुनरुपरितनत्रिभागे तीतोष्णदुःखमधोमागे तीव्रशीतदुःखं षष्ठीसप्तम्योरतिशीतोत्पन्नदुःखमनुभवन्ति । तथैव छेदनभेदनक्रकचविदारणयन्त्रपीडनशूलारोहणादितीबदुःख सहन्ते । तथा चोक्तं-"अच्छिणिमीलणमित्त णत्थि सुहं दुःखमेव अणुबद्धं । णिरये रयियाणं अहोणिसं पञ्चमाणाणं । " प्रथमपृथिवीत्रयपर्यन्तमसुरोदीरितं चेति । एवं ज्ञात्वा नारकदुःखविनाशार्थ भेदाभेदरत्नत्रयभावना कर्त्तव्या । संक्षेपेणाधोलोकव्याख्यानं ज्ञातव्यम् ॥ ___ अतः परं तिर्यगलोकः कथ्यते-जम्बूद्वीपादिशुभनामानो द्वीपाः, लवणोदादिशुभनामानः समुद्राश्च द्विगुणद्विगुणविस्तारेण पूर्व पूर्व परिवेष्टा वृत्ताकाराः स्वयम्भूरमणपर्यन्तास्तिर्यगविस्तारेण विस्तीर्णास्तिष्ठन्ति यतस्तेन कारणेन तिर्यगलोको भण्यते, मध्यलोकश्च । तद्यथा-तेषु सार्द्धतृतीयोद्धारसागरोपमलोमच्छेदप्रमितेष्वसंख्यातद्वीपसमुद्रेषु मध्ये जम्बूद्वीपस्तिष्ठति । स च जम्बूवृक्षोपलक्षितो मध्यभागस्थितमेरुपर्वतसहितो वृत्ताकारलक्षयोजनप्रमाणस्तद्विगुणविष्कम्भेण योजनलक्षद्वयप्रमाणेन वृत्ताकारेण बहिर्भागे लवणसमुद्रेण वेष्टितः । सोऽपिलवणसमुद्रस्तद्विगुणविस्तारेण योजनलक्षचतुष्टयप्रमाणेन वृत्ताकारेण बहिर्भागे धातकीखण्डद्वीपेन वेष्टितः । सोऽपि धातकीखण्डद्वीपस्तद्विगुणविस्तारेण योजनाष्टलक्षप्रमाणेन बहिर्भागे कालोदकसमुद्रेण वेष्टितः । सोऽपि कालोदकसमुद्रस्तद्विगुणविस्तारेण षोडशयोजनलक्षप्रमाणेन वृत्ताकारेण बहिर्भागेपुष्करद्वीपेन वेष्टितः । इत्यादिद्विगुणद्विगुणविष्कम्भः स्वयम्भूरमणद्वीपस्वयम्भूरमणसमुद्रपर्यन्तो ज्ञातव्यः । यथा जम्बूद्वीपलवणसमुद्रविष्कम्भद्वयसमुदयाद्योजनलक्षत्रयप्रमितात्सकाशाद्धातकीखण्ड एकलक्षणाधिकस्तथैवासंख्येयद्वीपसमुद्रविष्कम्भेभ्यः खयम्भरमणसमुद्रविष्कम्भ एकलक्षणाधिको ज्ञातव्यः । एवमुक्तलक्षणेष्वसंख्ये