________________
द्रव्यसंग्रहवृत्तिः । गाथा-३५
४६ कोनपञ्चाशत्प्रमितानि । पटलानि कोऽर्थः ? प्रस्तारा इन्द्रका अन्तभूमय इति । तत्र रत्नप्रभायां सीमन्तसंज्ञ प्रथमपटल विस्तारे नृलोकवत् यत्संख्येययोजनविस्तारवत् मध्यबिलं तस्येन्द्रकसंज्ञा । तस्यैव चतुर्दिग्विभागे प्रतिदिशं पङ्किरूपेणासंख्येययोजनविस्ताराण्येकोनपञ्चाशद्विलानि । तथैव विदिक्चतुष्टये प्रतिदिशं पङ्किरूपेण यान्यष्टचत्वारिंशद्विलानि तान्यप्यसंख्यातयोजनविस्ताराणि । तेषामपि श्रेणीबद्धसंज्ञा । दिग्विदिगष्टकान्तरेषु पतिरहितत्वेन पुष्पप्रकरवत्कानिचित्संख्येययोजनविस्ताराणि कानिचिदसंख्येययोजनविस्ताराणि यानि तिष्ठन्ति तेषां प्रकीर्णकसंज्ञा । इतीन्द्रकश्रेणीबद्धप्रकीर्णकरूपेण त्रिधा नरका भवन्ति । इत्यनेन क्रमेण प्रथम पटलव्याख्यानं विज्ञेयम् । तथैव पूर्वोक्तैकोनपञ्चाशत्पटलेप्वयमेव व्याख्यानक्रमः किन्त्वष्टश्रेणिष्वेकैकपटलं प्रत्येकैकं हीयते यावत्सप्तमपृथिव्यां चतुर्दिग्भागेष्वेकं बिलं तिष्ठति ।। . रत्नप्रभादिनरकदेहोत्सेधः कथ्यते प्रथमपटले हस्तत्रयम् ततः क्रमवृद्धिवशास्त्रयोदशपटले सप्तचापानि हस्तत्रयमङ गुलषटकं चेति । ततो द्वितीयपृथिव्यादिषु चरमेन्द्रकेषु द्विगुणद्विगुणे क्रियमाणे सप्तमपृथिव्यां चाफ्शतपञ्चकं भवति । उपरितने नरके य उत्कृष्टोत्सधः सोऽधस्तने नरके विशेषाधिको जघन्यो भवति, वथैव पटलेषु च ज्ञातव्यः । आयुःप्रमाणं कथ्यते । प्रथमपृथिव्यां प्रथमे फ्टले जघन्येन दशवर्षसहस्राणि तत आगमोक्तक्रमवृद्धिवशादन्तपटले सर्वोत्कर्षेणैकसागरोपमम् । ततः परं द्वितीयपृथिव्यादिषु क्रमेण त्रिसप्तदशसप्तदशद्वाबिंशतित्रयस्त्रिंशत्सागरोपममुत्कष्टजीवितम्। यच्चप्रथमपृथिव्यामुत्कृष्टं तद्वितीयायां समयाधिकं जघन्यं, तथैव पटलेषु च । एवं सप्तमपृथिवीपर्यन्तं ज्ञातव्यम् । स्वशुद्धात्मसंवित्तिलक्षणनिश्चयरत्नत्रयविलक्षणैस्तीत्रमिथ्यात्वदर्शनज्ञानचरित्रै परिणतानामसंज्ञिपञ्चेन्द्रियसरठपक्षिसर्पसिंहस्त्रीणां क्रमेण रत्नप्रभादिषु षटपथिवीषु गमनशक्तिरस्तिः सप्तम्यां तु कर्मभूमिजमनुष्याणां मत्स्यानामेव । किञ्च यदि कोऽपि निरन्तरं नरके गच्छति तदा पृथिवीक्रमेणाटसमषट्पञ्चचतुनिद्विसंख्यवारानेव । किन्तु सप्तमनरकादागताः पुनरप्येकवारं तत्रान्यत्र का नरके गच्छन्तीति नियमः । नरकादागता जीवा बलदेववासुदेवप्रतिवासुदेवचक्रवर्तिसंज्ञाः शलाकापुरुषाः न भवन्ति । चतुर्थफचमषष्ठसप्तमनरकेभ्यः समागताः क्रमेण तीर्थकरचरमदेहभावसंयतश्रावका न भवन्ति । तर्हि किं