________________
द्रव्यसंग्रहवृत्तिः । गाथा-३३ । ३४ पर्यन्तं यथा स्थिति ण्यते तथा जीवप्रदेशेष्वपि यावत्कालं कर्मसम्बन्धेन स्थितिस्तावत्कालं स्थितिबन्धो ज्ञातव्यः । यथा च तेषामेव दुग्धानां तारतम्येन रसगतशक्तिविशेषोऽनुभागो भण्यते तथा जीवप्रदेशस्थितकर्मस्कन्धानामपि सुखदुःखदानसमर्थशक्तिविशेषोऽनुभागबन्धो विज्ञेयः । सा च घातिकर्मसम्बन्धिनी शक्तिलतादार्वस्थिपाषाणभेदेन चतुर्धा । तथैवाशुभाघातिकर्मसम्बन्धिनी निम्बकाज्जीरविषहालाहलरूपेण । शुभाघातिकर्मसम्बन्धिनी पुनर्गुडखण्डशर्करामृतरूपेण चतुर्धा भवति । एकैकात्मप्रदेशे सिद्धानन्तैकभागसंख्या अभव्यानन्तगुणप्रमिता अनन्तानन्तपरमाणवः प्रतिक्षणवन्धमायान्तीति प्रदेशबन्धः । इदानी बन्धकारणं कथ्यते । “जोगा पयडिपदेसा ठिदिअणुभागा कसायदो होति ।" योगात्प्रकृतिप्रदेशौ स्थित्यनुभागो कषायतो भवत इति । तथाहि निश्चयेन निष्क्रियाणामपि शुद्धात्मप्रदेशानां व्यवहारेण परिस्पन्दनहेतुर्योगः, तस्मात्प्रकृतिप्रदेशबन्धद्वयं भवति। निर्दोषपरमात्मभावनाप्रतिबन्धकक्रोधादिकषायोदयात् स्थित्यनुभागबन्धद्वयं भवतीति। आस्रवे बन्धे च मिथ्यात्वाविरत्यादिकारणानि समानानि को विशेष इति चेत् नैवं प्रथमक्षणे कर्मस्कन्धानामागमनमास्रवः, आगमनानन्तरं द्वितीयक्षणादौ जीवप्रदेशेष्ववस्थानं बन्ध इति भेदः । यत एव योगकषायाद्वन्धचतुष्टयं भवति तत एव बन्धविनाशार्थ योगकषायत्यागेन निजशुद्धात्मनि भावना कर्त्तव्येति तात्पर्यम् ॥३३॥ एवं बन्धव्याख्यानेन सूत्रद्वयेन द्वितीय स्थलं गतम् ।
अत ऊर्ध्व गाथाद्वयेन संवरपदार्थः कथ्यते । तत्र प्रथमगाथायां भावसंवरद्रव्यसंवरस्वरूपं निरूपयति ।
व्याख्या। "चेदणपरिणामो जो कम्मस्सासवणिरोहणे हेऊ सो भावसंवरो खलु" चेतनपरिणामो यः कथंभूतः कर्मास्रवनिरोधने हेतुः स भावसंवरो भवति खलु निश्चयेन । “दव्वासवरोहणे अण्णो” द्रव्यकर्मास्रवनिरोधने सत्यन्यो द्रव्यसंवर इति । तद्यथा-निश्चयेन स्वतः सिद्धत्वात्परकारणनिरपेक्ष:, स चैवाविनश्वरत्वान्नित्यः परमोद्योतस्वभावत्वात्स्वपरप्रकाशनसमर्थः, अनाद्यनन्तत्वादादिमध्यान्तमुक्त:, दृष्टश्रुतानुभूतभोगाकाङ क्षारूपनिदानबन्धादिसमस्तरागादिविभावमलरहितत्वादत्यन्तनिर्मलः, परमचैतन्यविलासलक्षणत्वाच्चिदुच्छलननिर्भरः, स्वाभाविकपरमानन्दैकलक्षणत्वात्परमसुखमूर्तिः, निरास्रवसहज