________________
द्रव्यसंग्रहवृत्तिः । गाथा – ३१ । ३२ । ३३
धिकशतसंख्याप्रमितेात्तरप्रकृतिभेदेन तथा चासंख्येयलोकप्रमितपृथिवीकायनामकर्माद्युत्तरोत्तरप्रकृतिरूपेणानेकभेद इति “जिणक्खादो” जिनख्यातो जिनप्रणीत इत्यर्थः ||३१|| एवमात्रवव्याख्यानगाथात्रयेण प्रथमस्थलं गतम् ।
अतःपरं सूत्रद्वयेन बन्धव्याख्यानं क्रियते । तत्रादौ गाथापूर्वार्धेन भावधत्तरार्धेन तु द्रव्यबन्धस्वरूपमावेदयति ।
व्याख्या । "बदि कम्मं जेण दु चेदणभावेण भावबंधो सो" बध्यते कर्म येन चेतनभावेन स भावबन्धो भवति । समस्त कर्मबन्धविध्वंसनसमर्थाखण्डैकप्रत्यक्षप्रतिभासमयपरमचैतन्यविलासलक्षणज्ञानगुणस्य, प्रभेदनयेनानन्तज्ञानादिगुणाधारभूतपरमात्मना वा संबन्धिनी या तु निर्मलानुभूतिस्तद्विपक्षभूतेन मिथ्यात्वरागादिपरिणतिरूपेण वाऽशुद्धचेतनभावेन परिणामेन बध्यते ज्ञानावरणादि कर्म येन भावेन स भाववन्धो भण्यते । “कम्मादपदे साणं अण्णोण्णपवेसणं इदरो” कर्मात्मप्रदेशानामन्योन्य प्रवेशनमितरः । तेनैव भाव - बन्धनिमित्तेन कर्मदेशानामानन्देशानां च क्षीरनीरवदन्योन्यं प्रवेशनं संश्लेषो द्रव्यबन्ध इति ||३२||
अथ तस्यैव बन्धस्य गाथापूर्वार्धेन प्रकृतिबन्धादिभेदचतुष्टयं कथयति, उत्तरार्धेन तु प्रकृतिबन्धादीनां कारणं चेति ।
३८
व्याख्या । “पयडिट्ठिदिप्रणुभागप्पदेसभेदा दु चदुबिधा बंधा" प्रकृतिस्थित्यनुभागप्रदेशभेदाच्चतुर्विधो बन्धो भवति । तथाहि ज्ञानावरणीयम्ध कर्मणः का प्रकृतिः १ देवतामुखवस्त्रमिव ज्ञानप्रच्छादनता । दर्शनावरणीयस्य का प्रकृतिः । राजदर्शनप्रनिपेधकप्रतीहारबद्दर्शनप्रच्छादनता । सातासात वेदनीयस्य का प्रकृतिः ? मधुलिप्तखङ्गधारास्वादनवदल्प सुखबहुदुः खात्पादकता । मोहनीयस्य का प्रकृतिः ? मद्यपानद्धेयोपादेयविचारविकलता | आयुः कर्मणः का प्रकृति: ? निगडवद्गत्यन्तरगमननिवारणता । नामकर्मणः का प्रकृतिः ? चित्रकारपुरुषवन्नानारूपकरणता । गोत्रकर्मण: का प्रकृति: ? गुरुलघुभाजनकारककुम्भकारवदुच्चनीचगोत्रकरणता । अन्तरायकर्मणः का प्रकृतिः ? भाण्डागारिकवद्दानादिविघ्नकरणतेति । तथाचोक्तं- 'पडपडिहारसिमज्जाह डि चित्त कुलालभंडयारीणं । जह एदेसिं भावा तहविह कम्मा मुणैयव्वा । " इति दृष्टान्ताष्टकेन प्रकृतिबन्धा ज्ञातव्यः ॥ प्रजागोमहिष्यादिदुग्धानां प्रहरद्वयादिस्वकीयमधुररसावस्थान