________________
द्रव्यसंग्रहवृत्तिः । गाथा-१६।१७।१८ ष्यादिप्रतिबिम्बरूपा च छाया विज्ञेया । उद्योतश्चन्द्रविमाने खद्योतादितिर्यगजीवेषु च भवति । आतप आदित्यविमाने अन्यत्रापि सूर्यकान्तमणिविशेषादौ पृथ्वीकार्य ज्ञातव्यः । अयमत्रार्थ:- यथा जीवस्य शुद्धनिश्चयन स्वात्मोपलब्धिलक्षणे सिद्धस्वरूपे स्वभावव्यञ्जनपर्याये विद्यमानेऽप्यनादिकर्मबन्धवशात् स्निग्धरूक्षस्थानीयरागद्वेषपरिणामे सतिस्थानाधिकारनामौकामनास्थाम्यमात्रभ्रष्टस्य नरनारकादिविभावव्यञ्जनपर्याया भवन्ति तथा पुदलस्यापि निश्चयनयन शुद्धपरमाण्यवस्थालनणे स्वभावव्यञ्जनपर्याय सत्यपि स्निग्धरुक्षत्वाद्वन्धो भवतीति वचनाद्रागद्वेपस्थानीयवन्धवांग्यस्निग्धरुन्नत्वपरिणाम सत्युक्तलक्षणाच्छब्दादन्यऽप्यथागमोक्तलक्षणा आकुञ्चनप्रसारणदधिदुग्धादयो विभावव्यञ्जनपर्याया ज्ञातव्याः । एवमजीवाधिकारमध्ये पूर्वसूत्रोदितरूपादिगुणचतुष्टययुक्तस्य तथैवात्र सूत्रोदितशब्दादिपर्यायसहितस्य संक्षेपेणाणुस्कन्धभेदभिन्नस्य पुदलद्रव्यस्य व्याख्यानमुख्यत्वेन प्रथमस्थले गाथाद्वयं गतम् ।। १६ ।।
अथ धर्मद्रव्यमाख्याति ।
व्याख्या । गतिपरिणतानां धर्मो जीवपुद्गलानां गमनसहकारिकारणं भवति । दृष्टान्तमाह-तोयं यथा मत्स्यानाम् । स्वयं तिष्ठतो नैव स नयति तानिति । तथाहि यथा सिद्धो भगवानमूर्तोऽपि निष्क्रियस्तथैवाप्रेरकोऽपि सिद्धवदनन्तज्ञानादिगुणस्वरूपोऽहमित्यादिव्यवहारेण सविकल्पसिद्धभक्तियुक्तानां निश्चयन निर्विकल्पसमाधिरूपस्वकीयोपादानकारणपरिणतानां भव्यानां सिद्धगतेः सहकारिकारणं भवति । तथा निष्क्रियोऽमूर्तो निष्प्रेरकोऽपि धर्मास्तिकायः स्वकीयोपादानकारणेन गच्छतां जीवपुद्गलानां गतेः सहकारिकारणं भवति । लोकप्रसि
दृष्टान्तेन तु मत्स्यादीनां जलादिवदित्यभिप्रायः ॥ एवं धर्मद्रव्यव्याख्यानरूपेण गाथा गता ।। १७ ॥
अथाधर्मद्रव्यमुपदिशति ।
व्याख्या। स्थानयुक्तानामधर्मः पुद्गलजीवानां स्थितेः सहकारिकारणं भवति । तत्र दृष्टान्त:-छाया यथा पथिकानाम् । स्वयं गच्छतो जीवपुद्गलान्स नैव धरतीति । तद्यथा-वसंवित्तिसमुत्पन्नसुखामृतरूपं परमस्वास्थ्यं यद्यपि निश्चयेन स्वरूपे स्थितिकारणं भवति तथा "सिद्धोऽहं सुद्धोऽहं अणतणाणादिगुणसमिद्धोऽहं । देहपमाणो णिच्चो असंखदेसो अमुत्तोय ।" इति गाथाकथितसि