________________
२२
द्रव्यसंग्रहवृत्तिः । गाथा - १५/१६
चतुष्टयस्याशुद्धत्वं यथा
रागादिस्निग्धत्वविनाशे सत्यनन्तचतुष्टयस्य शुद्धत्वं तथा जघन्यगुणानां बन्धो न भवतीति वचनात्परमाणुद्रव्ये स्निग्धरूक्षत्वगुणस्य जघन्यत्वे सति रूपादिचतुष्टयस्य शुद्धत्वमवबोद्धव्यमित्यभिप्राय: ॥ १५॥
अथ पुद्गलद्रव्यस्य विभावव्यञ्जनपर्यायान्प्रतिपादयति । .
व्याख्या—शब्दबन्धसौक्ष्म्यम्थौल्यसंस्थानभेदनमलायातपोद्योतमहिनाः पुद्गलद्रव्यस्य पर्याया भवन्ति । अथ विस्तार : - भाषात्मको भाषात्मकश्च द्विविधः शब्दः । तत्राक्षरानक्षरात्मकभेदेन भाषात्मको द्विधा भवति । तत्राप्यक्षरात्मकः संस्कृतप्राकृतापभ्रंशपैशाचिका दिभाषाभेदेनार्यतेच्मनुष्यादिव्यव हारहेतुर्बहुधा । अनक्षरात्मकस्तु द्वीन्द्रियादितिर्यगजीवेषु सर्वज्ञदिव्यध्वनौ च । प्रभाषात्मकोऽपि प्रायोगिक वैश्रसिकभेदेन द्विविधः । “ततं वीणादिकं ज्ञ ेयं विततं पटहादिकम् । घनं तु कांस्यतालादि वंशादि सुषिरं विदुः ।" इति श्लोककथितक्रमेण प्रयोगे भवः प्रायोगिकञ्चतुर्धा भवति । विश्रसा स्वभावेन भवो वैश्रसिको मेघादिप्रभो बहुधा । किञ्च शब्दातीतनिजपरमात्मभावनाच्युतेन शब्दादिमनोज्ञामनोज्ञपञ्चेन्द्रियविषयासक्तेन च जीवेन यदुपार्जितं सुखदुःस्वरनामकर्म तदुदयेन यद्यपि जीवे शब्दो दृश्यते तथापि स जीवसंयोगेनात्पन्नत्वाद् व्यवहारेण जीवशब्दो भण्यते, निश्चयेन पुन: पुद्गलस्वरूप एवेति । बन्धः कथ्यते—मृत्पिण्डादिरूपेण योऽसौ बहुधा बन्धः स केवलः पुगलबन्धः, यस्तु कर्मनोकर्मरूपः स जीवपुद्गलसंयोगबन्धः । किञ्च विशेष : - कर्मबन्धपृथग्भूतस्वशुद्धात्मभावनारहितजीवस्यानुपचरितासद्भूतव्यवहारेण द्रव्यबन्धः, तथैवाशु
निश्चयेन योऽसौ रागादिरूपो भावबन्धः कथ्यते सेोऽपि शुद्धनिश्चयनयेन पुद्गलबन्ध एव । बिल्वाद्यपेक्षया बदरादीनां सूक्ष्मत्वं, परमाणोः साक्षादिति । बदराद्यपेक्षया बिल्वादीनां स्थूलत्वं जगद्व्यापिनी महास्कन्धे सर्वोत्कृष्टमिति । समचतुरस्रन्यग्रोधसात्विककुब्जवामनहुण्डभेदेन षट्प्रकारसंस्थानं यद्यपि व्यवहारनयेन जीवस्यास्ति तत्राप्यसंस्थानाच्चिचमत्कारपरिणतेर्भिन्नत्वान्निश्चयंन पुद्गलसंस्थानमेव । यदपि जीवादन्यत्र वृत्तत्रिकोणचतुष्कोणादिव्यक्ताव्यक्तरूपं बहुधा संस्थानं तदपि पुद्गल एव । गोधूमादिचूर्णरूपेण घृतखण्डादिरूपेण बहुधा भेदो ज्ञातव्यः । दृष्टिप्रतिबन्धकोऽन्धकारस्तम इति भण्यते । वृक्षाद्याश्रयरूपा मनु