________________
Vada ]
Gañadharavāda . • 45 :: [ जीव इति सार्थकमिदं शुद्धत्वतो घटाभिधानमिव ।
येनार्थेन सदर्थं स जीवोऽथ मतिर्भवेत् ॥ २७ ॥ (१५७५) अर्थो देह एव तस्य तद् नो पर्यायवचनभेदात् ।
ज्ञानादिगुणश्च यतो भणितो जीवो न देह इति ॥२८॥ (१५७६) Jīva iti sārthakam idanı śudd hatvato ghaçabhidhanam iva i . Yenarthena sadartham sa jivo’tha matir bhavet || 27 ( 1575 ) Artho deha eva tasya tad no paryāyavacanabhedati JNanadigunas ca yato bhanito jivo na deha iti ॥ 28 ( 1576)]
___Trans.-27-28 This word “ jiva” is significant owing to its being suddha, as is the word ghata. That artha ( meaning) by means of which it is pregnant with a meaning is jiva. If you, however, think that that artha is only the body, . that is not so, on account of a difference in synonymous words; for, jiva is said to have gunas such as knowledge, etc., and not that the body ( is so said ). ( 1575-1576 )
टीका-जीव इत्येतद् वचनं सार्थकमिति प्रतिज्ञा व्युत्पत्तिमत्त्वे सति शुद्धपदत्वात् , इह यद् व्युत्पत्तिमत्वे सति शुद्धपदं तदर्थवद् दृष्टम् , यथा घटादिकम् , तथा च जीवपदम् , तस्मात् सार्थकम् , यत्तु सार्थकं न भवति तद् व्युत्पत्तिमत् शुद्धपदं च न भवति, यथा डित्थादिकं खरविषाणादिकं च, न च तथा जीवपदम् , तस्मात् सार्थकम् । यद् व्युत्पत्तिमद् न भवति तच्छुद्धपदमपि सद् न सार्थकं, यथा डित्थादिपदम् , इति हेतोरनैकान्तिकवापरिहारार्थं व्युत्पत्तिमत्त्वविशेषणं द्रष्टव्यम् । यदपि शुद्धपदं न भवति किन्तु सामासिकम् , तदपि व्युत्पत्तिमत्त्वे सत्यपि सार्थकं न भवति, यथा खरविषाणादिकम् , इति शुद्धत्वविशेषणम् ।
अथ मन्यसे-देह एवास्य जीवपदस्याऽर्थः, न पुनरर्थान्तरम् ; उक्तं च-" देह एवाऽयमनुप्रयुज्यमानो दृष्टः, यथेष जीवः, एनं न हिनस्ति" इति, अतो देह एवास्यार्थो युक्त इति । तदेतद् न । कुतः ? इत्याह-देहजीवयोः पर्यायवचनभेदात् , यत्र हि पर्यायवचनभेदस्तत्रान्यत्वं दृष्टम् , यथा घटा-ऽऽकाशयोः । तत्र घट-कुट-कुम्भ-कलशादयो घटस्थ पर्यायाः, नभो