________________
Vada ]
.. Ganadharavada . . .: 17 :. जइ नत्थि संसइ च्चिय किमथि नत्थि त्ति संसओ कस्स ? । संसइए व सरूवे गोयम! किमसंसयं होज्जा ? ॥९॥(१५५७) Jaï natthi samsař cciya kim atthi natthi tti saṁsaö kassa ? I Samsaïe va sarūve Goyama! kim asamsayam hojjā ? 11 9 ( 1557 ) [यदि नास्ति संशयी एव किमस्मि नास्मीति संशयः कस्य ।
संशयिते वा स्वरूपे गौतम ! किमसंशयं भवेत् ? ॥९॥ (१५५७) Yadi násti samśayi eva kim asmi násmîti samśayaḥ kasya ? | Samśayite vā svarūpe Gautama ! kim asamsayam bhavet ?119 (1557)]
Trans.-9 If the object about which one has doubt, is certainly non-existent, who has a doubt as to “kim asmi nāsmi” ( whether I do exist or I do not exist ) ? Or, CGautama ! when you ( yourself ) are doubtful (about yourself ), what can be free from doubt ? ( 1557 )
टीका-यदि संशयी जीव एवादौ नास्ति तर्हि " अस्मिनास्मि" इति संशयः कस्य भवतु ? । संशयो हि विज्ञानाख्यो गुण एव; न च गुणिनमन्तरेण गुणः संभवति । देहोऽत्र गुणीति चेत्, न, देहस्य मूर्तत्वाजडत्वाच, ज्ञानस्य चामूर्तत्वात् बोधरूपत्वाच्च । न चातनुरूपाणां गुणगुणिभावो युज्यते, आकाश-रूपादीनामपि तद्भावापत्यातिप्रसङ्गप्राप्तः। “संसइए वेत्यादि " वेत्यथवा संशयिते स्वरूपे गौतम ! किमसंशयं शेषं भवेत् ? । इदमुक्तं भवति
-'किमस्मि नास्म्यहम् ' इत्येवं यः स्वरूपेऽपि संशेते-आत्मनिश्चयोऽपि यस्य नास्तीत्यर्थः तस्य शेषं कर्मबन्ध-मोक्षादिकं घट-पटादिकं च किमसं. शयम्-असन्दिग्धं स्यात् ? न कश्चित् , सर्वसंशय एव तस्य स्यादित्यर्थः, आत्मास्तित्वनिश्चयमूलो हि शेषवस्तुनिश्चय इति भावः। अहम्प्रत्ययग्राहयं च प्रत्यक्षमात्मानं निढुवानस्य "अश्रावणः शब्दः" इत्यादिवत् प्रत्यक्षविरुद्धो नाम पक्षाभासः, तथा वक्ष्यमाणात्मास्तित्वानुमानसद्भावाद् “नित्यः शब्दः" इत्यादिवदनुमानविरुद्धोऽपि । तथा “ अहमस्मि संशयी " इति प्रागभ्युपगम्योरत्र "नास्मि" इति प्रतिजाननस्य साङ्ख्यस्यानित्यः कर्ता,