________________
•: 532 :.
Jinabhadra Gani's
[The eleventh
विद्यमानमाह, न त्वसद्भूतम् , वसनस्य सद्धर्मत्वात् । तस्मात् कथं जीवनाशरूपं निर्वाणं स्यात् ?, न केवलमशरीरं मुक्तम् , किन्तु वाशब्दात् सदेहमपि सशरीरमपि वीतरागं-क्षीणोपशममोहयोगिनं परमसमाधिमन्तं भवस्थमपि न स्पृशेयुः । के ? । इष्टे-तरविशेषाः सुख-दुःखभेदा इत्यर्थः ।।४७१।। (२०१९)
D. C-A bodiless mukta being is not affected by the sukha-duḥkha bhedas. The word 'vā' includes dispassionate ascetics having bodies. ॥ 471 ॥ ( 2019 )
Also, वाव त्ति वा निवाओ वासदत्थो भवंतमिह संतं । बुज्झाऽव त्ति व संतं नाणाइविसिट्ठमहवाह ॥४७२॥ (२०२०) Vāva tti vā nivāö vāsaddattho bhavantamiha santami . Bujjha'va tti va santam nānaivisitthamahavāha ॥ 472॥ (2020)
[वावेति वा निपातो वाशब्दार्थो भवन्तमिह सन्तम् ।
बुध्यस्वाऽवेति वा सन्तं ज्ञानादिविशिष्टमथवाऽथ ।। ४७२॥ (२०२०) Vāveti vā nipāto vāśabdártho bhavantamiha santam i Budhyanvā’veti va santam jñānādivisistamathava’tha 11472||(2020)] _____Trans.--472 Or, “ vāva" is a particle meaning "Or", and — santam' means a soul existing ( in the mukta state ). Or, take ' ava' as a particle and 'santam' meaning ( a soul ) characterised by ( the qualities of ) knowledge, etc. ( 2020 )
टीका-'वा' इत्यथवा, 'वाव' इत्ययं शब्दो निपातः, स च वाशब्दार्थः । ततश्चाशरीरं सन्तं भवन्तं मुक्तौ विद्यमानं जीवं प्रिया-ऽप्रिये न स्पृशतः, वाशब्दात् सशरीरमपि वीतराग न ते स्पृशतः। यदिवा, 'वसन्तम्' इत्यन्यथा व्याख्यायते-" बुज्झाऽव त्ति वेत्यादि " "वा" इत्यथवाऽयमर्थः । “वाव संतं ति" रक्षण-गति-प्रीत्यादिष्वेकोनविंशतावर्थेष्ववधातुः पठ्यते । गत्यर्थाश्च धातवो ज्ञानार्था अपि भवन्ति । ततश्चाहविनेय ! त्वमेवं बुध्यस्व । किं तत् ? इत्याह-अशरीरं सन्तं मुक्त्यवस्थायां