________________
.: 524 :.
Jinabhadra Gani's
[ The eleventh
कयगाइभावओ वा नावरणा - ssबाहकारणाभावा । उप्पाय - ट्ठिइ-भङ्गस्सहावओ वा न दोसोऽयं ॥ ४६६॥ (२०१४)
Kayagaibhāvao vā nāvaranā”bāhakāraṇābhāvā | Uppāya—tthii-bhangassahāvao vā na doso'yam ॥ 466 ॥ ( 2014 )
[ कृतकादिभावतो वा नावरणा-ssबाधकारणाभावात् ।
उत्पाद -स्थिति-भङ्गस्वभावतो वा न दोषोऽयम् ।। ४६६ ।। (२०१४) Kritakadibhavato vā nāvaraṇā"bhādhakāranābhāvāt | Utpada-sthiti-bhaigasvabhavato va na doso 'yam || 466 (2014) ]
Trans.—466 “ Or, is it a- nitya because of (its ) being factitious etc?” It is not so, as there is no cause for ( the production of ) obstacles and interruptions. Or, this fault ( of a-nityatā) does not arise ( at all ) on account of its nature of being susceptible to production, retention and destruction.” (2014)
"
,
टीका - अथवा, अनित्ये सिद्धस्य सुख-ज्ञाने, तपःप्रभृतिकष्टानुष्ठानेन क्रियमाणत्वात्, आदिशब्दादभूतप्रादुर्भावात् घटवदिति । अत्रोत्तरमाह" नावरणेत्यादि " न सिद्धस्यानित्ये ज्ञान - सुखे । कुतः ? | आवरणं चाचाघवावरणा-ऽऽबाधौ तयोः कारणं हेतुस्तस्याऽभावात्, आकाशवदिति । इदमुक्तं भवति - सिद्धस्य ज्ञानं सुखं च यद्यपगच्छेत् तदा स्यादनित्यम्, अपगमश्च ज्ञानस्यावरणोदयात्, सुखस्य त्वाबाधहेतुभूतादसात वेदनीयोदयादिकारणाद्भवेत् ; आवरण- वेदनीयादीनि च मिथ्यत्वादिभिर्बन्धहेतुभिर्बध्यन्ते, तेच सिद्धस्य न विद्यन्ते, ततस्तदभावाद् नावरणा-ऽऽबाधाकारणसद्भावः, तदभावाच्च न सिद्धस्य ज्ञान - सुखापगमः, तदसत्वे च तयोः सदाऽवस्थित - त्वात् कथमनित्यत्वम् १ । न च चेतनधर्माः सर्वेऽप्यनित्या भवन्ति, जीवगत? द्रव्यत्वा मूर्त्तत्वादिभिर्व्यभिचारात् । ततश्च " चेतनधर्मस्वात" इत्यनैकान्तिको हेतुः । तथा, कृतकत्वादिरप्यनैकान्तिकः, घटप्रध्वंसाभावेन व्यभिचारात् । असिद्धश्चायम्, सिद्धस्य ज्ञानसुखयोः स्वाभाविकत्वेन कृतकत्वा द्ययोगात्, आवरणा - ssबाधकारणाभावेन च तत्तिरोभावमात्रमेव निवर्तते, न पुनस्ते क्रियेते, घटादिवत् ; नाप्यभूते प्रादुर्भवतः, विद्युदादिवत् येन तयोर
•