________________
:: 500 :
Jinabhadra Gaại's [The eleventh मुत्तस्स परं सोक्खं जाणाणाबाहओ जहा मुणिणो । तद्धम्मा पुण विरहादावरणा-ऽऽबाहहेऊणं ॥ ४४४ ॥ (१९९२) Muttassa param sokkham nānāņābāhao jahā muņino Taddhammā puna virahādāvaranā="bāhaheūņam 11 44411 (1992) [ मुक्तस्य परं सौख्यं ज्ञानानाबाधतो यथा मुनेः ।
तद्धर्मा पुनर्विरहादावरणा-ऽऽवाधहेतूनाम् ॥ ४४४ ॥ ( १९९२ ) Muktasya param saukhyam jäānānābādhato yatha muneḥ Taddharmā punarvirabadávaraņā,"bhādhahetūnām ||444|| (1992)]
Trans.-444 Like a sage, the free soul ( enjoys) perfect happiness by ( virtue of ) its ( high ) knowledge, in absence of ( all) obstructions. In absence of interruptions and obstructions, it ( enjoys) ( all ) its qualities. ( 1992)
टीका-मुक्तस्य जन्तोःपरं प्रकृष्टमकृत्रिमममिथ्याभिमानजं स्वाभाविक सुखमिति प्रतिज्ञा । " णाणाणाबाहउ ति" ज्ञानप्रकर्षे सति जन्म-जराव्याधि-मरणे-ष्टवियोगा-ऽरति-शोक-क्षुत्-पिपासा-शीतोष्ण-काम-क्रोधमद-शाठ्य-तृष्णा-राग-द्वेष-चिन्तौत्सुक्यादिनिः शेषाबाधविरहितत्वादिति हेतुः । तथा विधप्रकृष्टमुनेरिव । यथोक्ताबाधरहितानि काष्ठादीन्यपि वर्तन्ते, परं तेषां ज्ञानाभावाद् न सुखम् ; अतस्तद्वयवच्छेदार्थ ज्ञानग्रहणम् । कथं पुनरसौ प्रकृष्टज्ञानवान् , आवाधरहितश्च ? इत्याह--" तद्धर्मेत्यादि " तद्धर्माप्रकृष्टज्ञाना-ऽनाबाधवान् मुक्तात्मा । कुतः । विरहात्-अभावात् । केषाम् ।। आवरणहेतूनाम् , आवाधहेतूनां च । एतदुक्तं भवति-क्षीणनिः शेषावरणत्वात् प्रकृष्टज्ञानवानसौ, वेदनीयकर्मादीनां च सर्वेषामप्या बाधहेतूनां सर्वथाऽपगमात् सर्वाऽऽवाधरहितोऽयमिति । प्रयोगः-स्वाभाविकेन स्वेन प्रकाशेन प्रकाशवान् मुक्तात्मा, समस्तप्रकाशावरणरहितत्वात् , तुहिनांशुवत् । तथा चाह
स्थितः शीतांशुवजीवः प्रकृत्या भावशुद्धया।
चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥ १॥
इति । तथा, अनाबाधसुखो मुक्तात्मा, समस्ताबाधहेतुरहितत्वात् , ज्वराद्यपगमे स्वच्छाऽऽतुरवत् । तथा चोक्तम्