________________
Jinabhadra Gani's
[ The ninth
टीका - सातावेदनीयम्, शोधितमिध्यात्वपुद्गलरूपं सम्यक्त्वम्, हास्यम्, पुरुषवेद:, रतिः, शुभायुः, नाम - गोत्राणि चेत्येतत् सर्वं पुण्यमभिधीयते । तत्र नारकायुर्वर्जं शेषमायुस्त्रयं शुभम् देवद्विक - यशः - कीर्ति तीर्थकर नामाद्याः सप्तत्रिंशत् प्रकृतयो नामकर्मणि शुभाः, गोत्रे पुनरुचैर्गोत्रं शुभम् । एताः षट्चत्वारिंशत् प्रकृतयः किल शुभत्वात् पुण्यम् । अन्ये तु मोहनीयभेदान् सर्वानपि जीवस्य विपर्यासहेतुत्वात् पापमेव मन्यन्ते । ततः सम्यक्त्व - हास्य - पुरुषवेद - रतिवर्जा द्विचत्वारिंशदेव प्रकृतयः पुण्यम् ; तद्यथा
454:
सायं उच्चागोयं नर- तिरि - देवाउयाई तह नामे | देवदुगं मणुयदुगं पणिदजाई य तणुपणगं ॥ १ ॥ अंगोवंगाण तिगं पढमं संघयणमेव संठाणं । सुभवण्णाइच के अगुरुलहू तह य परघायें ॥ २ ॥ ऊसासं आयावं उज्जीय विहगगई वि य पसत्था | तस - बायर - पत्तं पत्तेय थिरं सुभं सुभगं ॥ ३ ॥ सुस्सर आज जसं निम्मिण तित्थयरमेव एयाओ । बायालं पगईओ पुष्णं ति जिणेहिं भणिआओ ॥ ४ ॥
"
भणितशेषास्तु या व्यशीतिप्रकृतयस्तत् सर्वमशुभत्वात् पापं विज्ञेयम् । सम्यक्त्वं कथमशुभम् - कथं तत् पापम् ? इति चेत् । उच्यते - रुचिरूपमेव हि सम्यक्त्वं शुभं तच्चेह न विचार्यते, किन्तु शोधितमिथ्यात्वपुद्गलरूपम्, तच्च शङ्काद्यनर्थहेतुत्वादशुभमेव अशुभत्वाच्च पापम् । सम्यग्रुचेश्चातिशयेनानावारकत्वादुपचारमात्र एवेदं सम्यक्त्वमुच्यते, परमार्थतस्तु मिथ्यात्वमेवैतत् । इत्यलं प्रसङ्गेन । इदं च पुण्य-पापलक्षणमुभयमपि सविपाकमविपाकं च मन्तव्यम् - यथा बद्धं तथैव विपाकतः किञ्चिद् वेद्यते किञ्चित्तु मन्दरसं नीरसं वा कृत्वा प्रदेशोदयेनाविपाकं वेद्यत इत्यर्थः । तदेवं पुण्यं पापं च भेदेन व्यवस्थाप्य निरस्तः संकीर्णपुण्य-पापपक्षः ।
>
इतश्चायमयुक्तः - सर्वस्यापि सन्मित्रसुख - दुःखाख्यकार्यप्रसङ्गात् ; न चैतदस्ति देवादीनां केवलसुखाधिक्यदर्शनात्, नारकादीनां केवलदुःखप्राचुर्यनिर्णयात् । न च सर्वथा सन्मित्रैकरूपस्य हेतोरल्प - बहुत्वभेदेऽपि
"