________________
. Jinabhadra Gani's . [The first previously observed in the case of a linga ( a characteristic or an indicatory mark) and a lingin (one having such a linga). (1550)
टीका-न चासावात्माऽनुमानगम्यः यस्मात् तदप्यनुमानं प्रत्यक्षपूर्वक प्रवर्तते । कुतः ? इत्याह-" पुबोवलद्धे "त्यादि लिङ्गन्यते-गम्यतेऽतीन्द्रियार्थोऽनेनेति लिङ्गम् ; अथवा लीनं-तिरोहितमर्थं गमयतीति लिङ्गम् , धूमकृतकत्वादिकम् , तदस्यास्तीति लिङ्गी वह्वथ-ऽनित्यत्वादिः, तयोलिङ्गलिङ्गिनोर्यः पूर्वं महानसादौ प्रत्यक्षादिनोपलब्धः कार्य-कारणभावादिकः सम्बन्धस्तस्य यत् स्मरणं तस्मादिति । इदमुक्तं भवति-पूर्व महानसादावग्निधूमोलिङ्गि-लिङ्गयोरन्वयव्यतिरेकवन्तमविनाभावमध्यक्षतो गृहीत्वा तत उत्तरकालं क्वचित् कान्तार-पर्वतनितम्बादौ गगनावलम्बिनी धूमलेखामवलोक्य प्राग् गृहीतं सम्बन्धमनुसरति, तद् यथा-' यत्र यत्र धूमस्तत्र तत्र प्रागहं वह्निमद्राक्षम् , यथा महानसादौ, धूमश्चात्र दृश्यते, तस्माद् वह्निनापीह भवितव्यम्', इत्येवं लिङ्गग्रहण-सम्बन्धस्मरणाभ्यां तत्र प्रमाता हुतभुजमवगच्छति । न चैवमात्मना लिङ्गिना साधु कस्यापि लिङ्गस्य प्रत्यक्षेण सम्बन्धः सिद्धोऽस्ति, यतस्तत्सम्बन्धमनुस्मरतः पुनस्तल्लिङ्गदर्शनाजीवे सम्प्रत्ययः स्यात् । यदि पुनर्जीव-लिङ्गयोः प्रत्यक्षतः सम्बन्धसिद्धिः स्यात् तदा जीवस्यापि प्रत्यक्षत्वापत्याऽनुमानवैययं स्यात् । तत एव तत्सिद्धेरिति ॥ २ (१५५०)।
____D. C.-The existence of the soul, cannot be proved by anumāna ( inference); for, after all, this anumāna is preceded by pratyakşa pramana as is suggested by the second hemistich of this verse.
Whatever reveals an object which is imperceptible to the senses, is called a linga or whatever throws light on a concealed object is a linga, and one that has a linga is called a lingin. For instance, smoke is the linga, and fire the lingin. To give another example krtakatva ( performance of an action ) is the linga, and anityatva (impermanence ) the lingin.
An inseparable connection between smoke and fire, in the form of effect and cause -- the connection which is directly perceived in a kitchen, etc., can be established in two ways, viz.,
the lingin.