________________
.: 378 :
Jinabhadra Gaņi’s
[The seventh
[ यदि नारकाः प्रपन्नाः प्रकृष्टपापफलभोगिनस्तेन ।
सुबहुकपुण्यफलभुजः प्रपत्तव्याः सुरगणा अपि ॥ ३२६ ॥ (१८७४) Yadi nārakāḥ prapannāḥ praksistapāpaphalabhoginastena | Subahukapunyaphalabhujah prapattavyāḥ suragaņā api 1132611 ]
Trans~326 If the denizens of hell are admitted as the sufferers of the rewards of great sins, gods should be accepted as the enjoyers of the fruits of many good deeds. ( 1874 )
टीका-इह स्वकृतप्रकृष्टपापफलभोगिनस्तावत् कचिद् नारकाः प्रतिपत्तव्यास्ते च यदि प्रपन्नाः, “तेणं ति" तर्हि तेनैव प्रकारेण स्वोपार्जितसुष्ठुबहुकपुण्यफलभुजः सुरगणा अपि प्रतिपत्तव्याः। अत्राह-नन्विहैवातिदुःखितनरास्तिर्यञ्चश्वातिदुःखिताः प्रकृष्टपापफलभुजो भविष्यन्ति, तथा, मनुष्या एवातिसुखिताः प्रकृष्टपुण्यफलभुजो भविष्यन्ति, किमदृष्टनारक-देव. परिकल्पनया ? इति । तदयुक्तम् , प्रकृष्टपापफलभुजां सर्वप्रकारेणापि दुःखेन भवितव्यम् , न चातिदुः खितानामपि नर-तिरश्चां सर्वप्रकारं दुःखं दृश्यते सुखदपवनाऽऽलोकादिसुखस्य सर्वेषामपि दर्शनात् । प्रकृष्टपुण्यफलभुजामपि सर्वप्रकारेणापि सुखेन भवितव्यम् , न चेहातिसुखितानामपि नराणां सर्वप्रकारं सुखमवलोक्यते, पूतिदेहोद्भवस्य रोग-जरादिप्रभवस्य च दुःखस्य तेषामपि सद्भावात् । तस्मात् प्रकृष्टपापनिबन्धनसर्वप्रकारदुःखवेदिनो नारकाः, प्रकृष्टपुण्यहेतुकसर्वप्रकारसुखभोगिनो देवाश्चाभ्युपगन्तव्या एवेति ॥ ३२६ ॥ (१८७४)
D. C.--Bhagavan :-When you believe that Narcoleas are the sufferers of the rewards of great sins, you should also believe that gods are the enjoyers of the fruits of exalted good deeds and thus they are existing.
Maurya :-Turyancas, who are excessively miserable, are the sufferers of the reward of great sins, and excessively happy human beings are enjoyers of the fruits of exalted.good deeds. So, it is not necessary to assume the existence of devas and Nārakas at all.