SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ .: 292:. Jinabhadra Gani's [ The fifth कम्माभावे व मई को दोसो होज्ज जइ सभावोऽयं । जह कारणाणुरूवं घडाइ कज्जं सहावेणं ॥ २३७ ॥ (१७८५) Kammābhāve vi maî ko doso hojja jai sabhāvo'yam | Jaha kāranānurūvam ghadai kajjam sahāvenam ॥ 237 ॥ ( 1785) [ कर्माभावेऽपि मतिः को दोषो भवेत् यदि स्वभावोऽयम् । यथा कारणानुरूपं घटादि कार्य स्वभावेन || २३७ ॥ ( १७८५ ) Karmabhave'pi matiḥ ko doso bhavet yadi svabhavo'yam | Yathā kāranānurūpam ghatadi karyam svabhāvena ॥ 237 1785) ] Trans. – 237 Again, the opponent might believe that ( the karya could be brought about even in absence of Karman. What objection would arise if it were its very nature as in the case of karyas like ghata etc., which bear natural resemblence with their kāranas ? ( 1785 ) टीका - अथ परस्यैवंभूता मतिः स्याद् यदुतकर्माभावेऽपि यदि भवसद्भावरूपः स्वभाव एवायं भवेत् तर्हि को दोषः स्यात् ? -- विनापि कर्म यदि स्वभावादेव भवः स्यात् तर्हि किं दूषणं भवेत् ? --- न किञ्चिदित्यर्थः । दृष्टान्तमाह-यथा कर्म विनापि मृत्पिण्डादिकारणानुरूपं घटादि कार्य स्वस्वभावेनैवोत्पद्यमानं दृश्यते, तथा सदृशप्राणिजन्मपरम्परारूपो भवोऽपि स्वभावादेव भविष्यति । अत्रोच्यते ननु घटोऽपि न स्वभावतः एव जायते, कर्तृ-करणाद्यपेक्षित्वात् तस्य । ततश्चेहापि कर्तुरात्मनः पारभविकस्य च शरीरांदिकार्यस्य करणं संभाव्यते तच्च कर्तृ- कार्याभ्यां भिन्नं लोकेऽपि दृश्यते, कुलाल-घटाभ्यां चक्रादिवत् यच्चेहात्मनः शरीरादि कार्यं कुर्वतः करणं तत् कर्मेति प्रतिपद्यस्व । स्यादेतत् घटादेः प्रत्यक्षसिद्धत्वात् भवन्तु कुलालादयः कर्तारः, शरीरादि कार्यं त्वादिविकारवत् स्वभावतोऽपि भवि ष्यति, ततो न कर्मसिद्धिः । तदयुक्तम्, यतो न स्वाभाविकं शरीरादि, आदिमत्प्रतिनियताकारत्वात् घटवदिति । किञ्च "कारणानुरूपमेव कार्यम्" इत्येवं यत् परभवे सादृश्यं त्वयाऽभ्युपगम्यते, तदपि स्वभाववादिनस्तवाआदि "
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy