________________
Jinabhadra Ganņi's
[ The fourth अयं त्वौपचारिको मनुष्यविशेषो माणवकः, तथा, कार्यमिदं घटादि, कारणं चेदं मृत्पिण्डादि; तथा साध्यमिदमनित्यत्वादि, साधनं कृतकत्वादि, कर्ता घटादेः कुलालादिः; तथा, अयं वक्ता, वादी, वचनं चेदं व्यवयवं पञ्चावयवं
इदं च वाच्यमभिधेयमस्य शब्दसंदर्भस्यः तथा, अयं स्वपक्षः, अयं च परपक्ष इति सर्वशून्यत्वे कुतोऽसौ विशेषो गम्यते । । " किं वेह थिरेत्यादि " पृथिव्याः स्थिरत्वम्, अपां द्रवत्वम् वह्नेरुष्णत्वम् वायोश्चलत्वम्, आकाशस्यारूपत्वमित्यादयो नियताः सर्वदैवैकस्वभावाः विशेषाः सर्वशून्यतायां कुतो गम्यन्ते । तथा, शब्दादयो ग्राह्या एव, इन्द्रियाणि च श्रोत्रादीनि ग्राहकाण्येवेति कुतो नियमसिद्धि: ? ।
•: 216:
" समयेत्यादि " ननु सर्वशून्यतायां स्वप्ना स्वप्न - सत्यालीका - दीनां विशेषनिबन्धनाभावात् समतैव कस्माद् न भवति - यादृशः स्वमः, अस्वप्नोऽपि तादृश एव; यादृशश्चास्वप्नः, स्वप्नोऽपि तादृश एवेत्यादि ? | अथवा, विपर्ययः कुतो न भवति - यः स्वप्नः सोऽस्वप्नः यस्त्वस्वप्नः स स्वप्न इत्यादि । यदिवा, सर्वेषामपि स्वप्नाऽस्वप्नादीनां सर्वथाशून्यत्वेऽग्रहणमेव कस्माद् न भवति ? | भ्रान्तिवशादेव स्वप्ना स्वप्नादिग्रहणमिति चेत् । तदयुक्तम् - देश-काल- स्वभावादिनैयत्येन तद्ग्राहकज्ञानोत्पत्तेः । किञ्च, इयं
न्तिः किं विद्यते, न वा । यदि विद्यते, तर्ह्यभ्युपगमविरोधः । अथ न विद्यते, तर्हि भ्रान्तेरसच्त्वाभावग्राहकज्ञानस्य निर्भ्रान्तत्वात् सन्त्येव सर्वे भावाः, न पुनः शून्यतेति । अथवा, अन्यत् पृच्छामो भवन्तम् - ननु सर्वशून्यत्वे शून्यतैव सम्यक्त्वं सतां भावानां ग्रहणं सद्ग्रहः, भावसच्चग्रहणं पुनर्मिथ्यात्वमित्यत्र कस्ते विशेषहेतुः ? |
44
.यदुक्तम्- न स्वतो भावानां सिद्धिः इत्यादि; तत्प्रतिविधानार्थमाह - " हि स परो भयेत्यादि " ननु कथं ह्रस्व-दीर्घो - भयविषये " इदं ह्रस्वम् " "इदं दीर्घम्" "एतत्तु तदुभयम्" इत्येवंभूतो स्व-परो भय बुद्धिर्युगपदाश्रीयते भवता ? कथं च तेषां ह्रस्व-दीर्घो -भयानां परस्परम सिद्धिरुधुध्यते ? - पूर्वापरविरुद्धत्वाद् नैतद् वक्तुं युज्यत इत्यर्थः । अयमत्र भावार्थ:न स्वल्पापेक्षिकमेव वस्तूनां सच्चम्, किन्तु स्वविषयज्ञानजननाद्यर्थक्रियाकारित्वमपि । ततश्च ह्रस्व-दीर्घो - भयान्यात्मविषयं चेज्ज्ञानं जनयन्ति, तदा' सन्त्येव तानि, कथं तेषामसिद्धि: ? । यदप्युक्तम् - " मध्यमाङ्गुलिमपेक्ष्य
A
"