________________
•: 198 :.
Jinabhadra Gani's
[The fourth
oneness ) or all the objects would become inexpressible (by word or speech ) or non-existent in all respects (1693).
टीका-नन्वस्तित्व-घटयोरेकत्वम् , अनेकत्वं वां ? । यद्येकत्वम् , तर्हि सर्वैकता प्राप्नोति-यो योऽस्ति स स घट इत्यस्तित्वे घटस्य प्रवेशात् सर्वस्य घटत्वप्रसङ्गः स्यात्, न पटादि पदार्थान्तरम् । घटो वा सर्वसत्त्वाव्यतिरेकात् सर्वात्मकः स्यात् ; अथवा, यो घटः स एवास्तीति घटमात्रेऽस्तित्वं प्रविष्टम् , ततोऽन्यत्र सत्त्वाभावादघटस्य सर्वस्याप्यभावप्रसङ्गतो घट एवैका स्यात् । सोऽपि वा न भवेत् , अघटव्यावृत्तो हि घटो भवति, यदा च तत्प्रतिपक्षभृतोऽघट एव नास्ति, तदा किमपेक्षोऽसौ घटः स्यात १। इति सर्वशून्यत्वमिति । अथ घट-सत्चयोरन्यत्वमिति द्वितीयो विकल्पः। तर्हि सत्त्वरहितत्वादसन् घटः, खरविषाणवदिति । अपिच, सतो भावः सचमुच्यते, तस्य च स्वाधारभूतेभ्यो घटादिभ्यः सद्भयोऽन्यत्वेऽसत्त्वमेव स्यात्, आधारादन्यत्वे आधेयस्याप्यनुपपत्तेः । तदेवमस्तित्वेन सह घटादीनामेकत्वाऽन्यत्वविकल्पाभ्यामुक्तन्यायेन सर्वैकतादिदोषप्रसङ्गात सर्वेऽपि भावा अनभिलप्या वा भवेयुः, सर्वथा शून्या वा स्युः, सर्वथैव तेषामभावो वा भवेदित्यर्थः । अपिच, यद् नोत्पद्यते तत्तावद् निर्विवादं खरविषाणवदसदेव, इति निवृत्ता तत्कथा । यदप्युत्पत्तिमल्लोकेऽभ्युपगम्यते, तस्यापि जाता-जातादिविकल्पयुक्तिभिरुत्पादो न घटते, इति शून्यतैव युक्तेति ॥ १४५ (१६९३) ।
D. C.-( 1.) If ghata and Astitva are taken to be one, all objects will have to be taken as one. For, when ghata is said to be abhinna from astitva, all objects that have existence will be called ghata, and there will be no distinction of objects like pata etc. Thus there will arise the difficulty of scrvaikatā or Universal one-ness. Moreover, ghata will become a sarvatmaka or all-pervading object, since it is taken as inseparable from the astitva of all objects. Again, if ghata is believed to be costitva itself, existence will be restricted to ghata only. All other objects that are not ghata will, in that case, have no existence. Consequently ghata alone will exist,