________________
Vada ] Gañadharavada
: 157:. सवेंदिउवलद्धाणुसरणओ तदहिओऽणुमंतवो। जह पंचभिन्नविन्नाणपुरिसविन्नाणसंपन्नो ॥ ११२॥ (१६६०) Savvendiuvaladdhāņusaranao tadahio’ņumantavvo 1 Jaha pancabhinnavinnānapurisavinnānasampanno ॥ 112 ॥ (1660) [ सर्वेन्द्रियोपलब्धानुस्मरणतस्तदधिकोऽनुमन्तव्यः ।
यथा पञ्चभिन्नविज्ञानपुरुषविज्ञानसंपन्नः ॥ ११२ ॥ (१६६०) Sarvendriyopalabdhānusmaraṇatastadadhiko’numantavyaḥ | Yathā pancabhinnavijnāna puruşavijnanasampannaḥ 1112|1 (1660)]
Trans.-112 Just as from five different persons having five different vijnānas a sixth person possessing all the five vijnanas is different, so also, the soul who remembers an object cognized by all the sense-organs should be inferred as being distinct from them. ( 1660 )
टीका-सर्वेन्द्रियोपलब्धार्थानुस्मरणतः कारणात् तदधिकोऽस्ति जीवः । दृष्टान्तमाह-यथा पञ्च च ते भिन्नविज्ञानाश्च पञ्चभिन्नविज्ञाना इच्छावशात् प्रत्येकं स्पर्श-रस-गन्ध-रूप-शब्दोपयोगवन्त इत्यर्थः, पञ्चभिन्न विज्ञानाश्च ते पुरुषाश्च पञ्चभिन्नविज्ञानपुरुषास्तेषां यानि स्पर्शादिविषयाणि विज्ञानानि तैः संपन्नस्तद्वेत्ता यः षष्ठः पुरुषस्तेभ्यः पञ्चभ्यो भिन्नः। इदमत्र तात्पर्यम्य इह यैरुपलब्धानामर्थानामेकोऽनुस्मर्ता स तेभ्यो भिन्नो दृष्टः, यथेच्छानुविधायिशब्दादिभिन्नजातीयविज्ञानपुरुषपञ्चकात् तदशेषविज्ञानाभिज्ञः पुमान् , इच्छानुविधायिशब्दादिभिन्नजातीयविज्ञानेन्द्रियपञ्चकाशेषविज्ञानवेत्ता चायमेक आत्मा, तस्मादिन्द्रियपञ्चकाद् भिन्न एवेति। शब्दादिभिन्नविज्ञानपुरुषपश्वस्येव पृथगिन्द्रियाणामुपलब्धिप्रसङ्गतोऽनिष्टापादनाद् विरुद्धोऽयं हेतुरिति चेत् । न, इच्छानुविधायिविशेषणात् , इच्छायाश्चेन्द्रियाणामसंभवात् , सहकारिकारणतयोपलब्धिकारणमात्रताया इन्द्रियेष्वपि सद्भावात् , उपचारतस्तेषामुप्युपलब्धेरविरोधाददोषः । किञ्च, प्रतिपत्त्युपायमात्रमेवैतत् , न ह्यतीन्द्रियेप्वर्थेष्वेकान्तेनैव युक्त्यन्वेषणपरैर्भाव्यम् ; उक्तं च