________________
Vada ] Gañadharavada
. : 142 ... At this point, an opponent may advance the following argument :भूयाणं पत्तेयं पि चेयणा समुदए दरिसणाओ। जह मजंगेसु मओ मइ त्ति हेऊ न सिद्धोऽयं ॥१०७॥(१६५५) Bhūyāņam patteyam pi ceyaņā samudae darisanão i Jaha majjarigesu mao mai tti heū na siddho'yam || 107-11 (1655) [ भूतानां प्रत्येकमपि चेतना समुदये दर्शनात् ।
यथा मद्याङ्गेषु मदो मतिरिति हेतुर्न सिद्धोऽयम् ।। १०७ ॥ (१६५५) Bhūtánām pratyekampi cetanā samudaye darśanāt Yatha madyangeșu mado matiriti heturna siddho'yam 111071(1655)]
Trans.107 Since consciousness is found in the collection of bhūtas, if an argument is advanced that consciousness is present in each individual bhūta also as intoxication is present in various constituents of wine, it can never be approved of. ( 1655 ).
टीका-स्यात् परस्य मतिः-साधूक्तं यत्-पृथगपि मद्याङ्गेषु किञ्चिद् मदसामर्थ्य मस्तीति । एतदेव हि मम भूतेषु व्यस्तावस्थायां चैतन्यास्तित्वसिद्धावुदाहरणं भविष्यति, तथाहि-व्यस्तेष्वपि भूतेषु चैतन्यमस्ति, तत्समुदाये तदर्शनात् , मद्याङ्गेषु मदवदिति । यथा मद्याङ्गेषु मदः पृथगल्पत्वाद् नातिस्पष्टः, तत्समुदाये त्वभिव्यक्तिमेति, तथा भूतेष्वपि पृथगवस्थायामणीयसी चेतना, तत्समुदाये तु भूयसीयमिति । अत्रोत्तरमाह-"हेऊ न सिद्धोऽयमिति" " चेतनाया भूतसमुदाये दर्शनात्" इत्यसिद्धोऽयं हेतुरित्यर्थः, आत्मनो भूतसमुदायान्तर्गतत्वेन चेतनायास्तद्धमत्वात् , आत्माभावे च तत्समुदायेऽपि तदसिद्धेरसिद्धोऽयं हेतुरिति भावः। यदि हि भूतसमुदायमात्रधर्मश्चेतना भवेत् तदा मृतशरीरेऽप्युपलभ्येत । वायोस्तदानीं तत्राभावात् तदनुपलम्भ इति चेत् । नैवम् , नलिकादिप्रयोगतस्तत्प्रक्षेपेऽपि तदनुपलब्धेः। तेजस्तदानीं तत्र नास्तीति चेत् । न, तत्प्रक्षेपेऽपि तदनुपलम्भात् । विशिष्टतेजो-वाय्व