________________
97 :.
Vada ]
Gañadharavada Trans.-72 0 gentle one ! By the very fact that the souls are active mostly in ( doing ) deeds, the fruits of which are visible ( in this very life ) learn ( from me ) that by that very ( reason ) those are also ( deeds ) the fruits of which are invisible, i. e., to be had in a subsequent birth. ( 1620 )
टीका-सौम्य ! इत्यग्निभूतेरामन्त्रणम् , यत एव प्राणिनः प्रायेण कृषि-वाणिज्य-हिंसादिकास्वेव दृष्टफलास्वशुभक्रियासु प्रवर्तन्ते, अदृष्टफलासु पुनर्दानादिकासु शुभक्रियासु स्वल्पा एव प्रवर्तन्ते, तेनैव तस्मादेव कारणात् . ता अपि कृषि-हिंसादिका दृष्टफलाः क्रिया अदृष्टफला अपि प्रतिपद्यस्वाभ्युपगच्छ । इदमुक्तं भवति-यद्यपि कृषि-हिंसादिक्रियाकर्तारो दृष्टफलमात्रार्थमेव ताः समारभन्ते नाधर्मार्थम् , तथापि तेऽधर्मलक्षणं पापरूपमदृष्टफलमश्नुवत एव, अनन्तसंसारिजीवान्यथानुपपत्तेः । ते हि कृषि-हिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बद्धवाऽनन्तं संसारं परिभ्रमन्तोऽनन्ता इह तिष्टन्ति, दानादिक्रियानुष्ठातारस्तु स्वल्पा अदृष्टं धर्मरूपं फलमासाद्य क्रमेण मुच्यन्त इति ।
ननु दानादिक्रियानुष्ठातृभिर्यददृष्टं धर्मलक्षणं फलमाशंसितं तत् तेषां भवतु, यैस्तु कृषि-हिंसादिक्रियाकर्तृभिरदृष्टमधर्मरूपं फलं नाशंसितं तत् तेषां कथं भवति ? इति चेत् । तदयुक्तम् , न ह्यविकलं कारणं स्वकार्य जनयत् कस्याप्याशंसामपेक्षते, किन्त्वविकल कारणतया स्वकार्य जनयत्येव । वप्तुरज्ञातमपि हि कोद्रवादिबीजं क्वचिद् भूप्रदेशे पतितं जलादिसामग्रीसद्भावेऽविकलकारणतां प्राप्तं वत्राशंसाभावेऽपि स्वकार्य जनयत्येव अविकलकारणभूताश्च कृषि-हिंसादयोऽधर्मजनने । अतस्तत्कर्तृगताशंसा तत्र क्वोपयुज्यते । न च दानादिक्रियायामपि विवेकिनः फलाशंसां कुर्वते, तथाप्यविकलकारणतया विशिष्टतरमेव ता धर्मफलं जनयन्ति । तस्मात् शुभाया अशुभायाश्च सर्वस्या अपि क्रियाया अदृष्टं शुभाऽशुभं फलमस्त्येवेति प्रतिपत्तव्यम् , अनन्तसंसारजीवसत्तान्यथानुपपत्तेरिति स्थितम् ॥ ७२ (१६२० ) ॥
____D. C.-0 gentle one ! Thus Agnibhati is addressed. By the very fact that creatures generally become active in (doing )
13