________________
Vada ]
. Gañadharavāda : .:: 65 :: Vinnāņāo'nanno vinnāņaghanno tti savvaövāvil Sa bhavai bhuehinto ghadavinnānāi bhavena ॥ 45 ( 1593 ) Tāim ciya bhūyāim so'nu viņassai viņassamāṇāim / Atthantarovaige kamaso vinneya bhave nam ॥ 46 ( 1594 )
[ विज्ञानादनन्यो विज्ञानधन इति सर्वतोव्यापी ।
स भवति भूतेभ्यो घटविज्ञानादिभावेन ॥ ४५ ॥ (१५९३) तान्येव भूतानि सोऽनु विनश्यति विनश्यमानानि ।
अर्थान्तरोपयोगे क्रमशो विज्ञेयभावेन ॥ ४६ ॥ (१५९४) Vijñānādananyo vijñānaghana iti sarvatovyāpī| Sa bhavati bhūtebhyo ghatavijñānādibhāvena ll 45 ( 1593 ) Tanyeva bhūtāni so’nu vinaśyati vinaśyamanānil Arthántaropayoge kramaśo vijñeyabhāvena || 46 ( 1594 )]
_Trans.-45-46 The soul ( itself ) is the assemblage of vijñānas owing to its being non-separate from vijnana, or it is so, on account of its pervasive all around. It arises from elements in the form of the vijñāna of a pitcher, etc. When those very elements perish as vijñeya-bhāvas ( objects coming within the range of vijñāna ) on the attention being gradually directed to another object, it (the soul) subsequently perishes. (1593–1594)
__टीका-इह विज्ञानघनो जीव उच्यते । कथम् ? इति चेत् । उच्यते-- विशिष्टं ज्ञानं विज्ञानं ज्ञान-दर्शनोपयोग इत्यर्थः, तेन विज्ञानेन सहानन्यभूतस्वादेकतया घनत्वं निविडत्वमापन्नो विज्ञानधनो जीवः, यदिवा "सबओवा वि ति" सर्वतः प्रतिप्रदेशमनन्तानन्तविज्ञानपर्यायसङ्घातघटितत्वाद् विज्ञानघनो जीवः। एवकारेण तु विज्ञानघन एवासौ, न तु नैयायिकादीनामिव " स्वरूपेण निर्विज्ञानत्वाजडोऽसौ, बुद्धिस्तु तत्र समवेतैव" इति नियम्यते । स भवति-उद्यत इति क्रिया । केभ्यः ? इत्याह-" भूएहितो ति" भूतानीह घट-पटादिज्ञेयवस्तुरूपाण्यभिप्रेतानि, तेभ्यो ज्ञेयभावेन परिणतेभ्यः । केन भवति ? इत्याह--"घटोऽयम्" "पटोऽयम्" इत्यादिविज्ञानभावेन घटादिज्ञान