________________
हेतुविडम्बनस्थलम् । त्वात् प्रमाणप्रगुणानणुपड्क्तौ प्रवेशानहत्वात् पवित्रश्रोत्रियश्रेणाविव चाण्डालस्य । ज्ञानमपि किमवाधितानुभवस्वभावं किं वाऽव्यभिचार्यनुभवस्वभावं भवेदिति विकल्पद्वयं भीमार्जुनद्वयमिव समग्रप्रतिपक्षपक्षविक्षेपबद्धकक्षं पुरस्ताद् विस्फुर्तिमत् प्रसरीसति । तत्राप्याये पक्षे तस्याबाधितत्वं कि तात्कालिक कालान्तरीय वा परिकल्प्यते । न तावत् तात्कालिकम्, गुरुतरमरुमरीचिकानिचयचुम्ब्युदकादावतिप्रसक्तिपराभूतत्वेन विदुषाम नादरणीयत्वात् । कालान्तरीयबाधविरहस्यासर्वज्ञाऽविज्ञेयत्वात् । तन्नाबाधितानुभवस्वभावं ज्ञान प्रमाणत्वेन प्रीणयति प्रवणान्तर्वाणिप्राणिगणान् । द्वितीयोऽपि विकल्पो नानल्पकल्यनातल्पमधिरोहति । तत्रापि कि यत्रार्थस्तत्र ज्ञानमिति देशतः किं वा यदाऽर्थस्तदा ज्ञानमिति कालतो वाऽव्यभिचारित्व प्रोच्येत प्राञ्चच्चातुरीगरीयसा । उभयथाऽपि न घटाकोटिमाटीकतेऽव्यभिचारित्वम् यतो ज्ञानार्थयोविलक्षणस्वभावत्वेन पृथक् पृथक् देशावस्थायित्वेन पूर्वोत्तरकालभावित्वेन च परस्परमविनाभावस्य स्वप्नान्तरेऽप्यविभावनात् । तन्न सामान्यात्मकप्रमाणतो भवतः साध्यप्रतीति प्रीतिमुत्पादयेत् ।
अथ विशेषात्मकमिति मति सापि न मतिमतां रतिदायिनी यतस्तदपि किं प्रत्यक्षमनुमानमागमो वा स्यात् । प्रत्यक्षमपि किमैन्द्रियमतीन्द्रियं वा ? अतीन्द्रियमपि योगिसत्कम् मानसं वाट न तावद योगिसत्कम् , तस्य च साम्प्रतक लीनानां मलीमसाल्मनां दूरापास्तत्वात् । नापि मानसम् , तस्यापीन्द्रियानुयायित्वेनेन्द्रियाध्यक्षोक्तदोषावकीर्ण त्वात् । ऐन्द्रियमपि किं भवदीयम् सर्वीय वा ? न तावत् सर्वीयम् यतः सर्वेषां प्रत्यक्षप्रतीते वस्तुनि पुर परिस्फुरत्स्फुटघटवद् विसवादासम्भवेन साध्यत्वाऽयोगात् । भवदीयमपि किं सविकल्पकं निर्विकल्पं वा स्यात् ? सविकल्पकमपि कि सवादोपे (तं) वाऽन्यथा वा । सवादोऽपि तस्य किं स्वत' परतो वेत्याद्यावर्तनेन परोल:रपि वर्षेर्न विकल्पकल्पनाऽनल्पजल्पविश्रान्ति । नापि निर्विकल्पकम् तस्य शब्दप्रवेशावकाशाभावेन असत्कल्पत्वात् । नाप्यनुमानम्, तदपि किं प्ररूप्यमाणं प्रामाणिकेनैतदेव स्यादन्यदेव वा 2 | एतदेवेति पक्षे परस्पराश्रयः सप्रश्रयमाश्रयत्येव । अथान्यदेवेत्युच्यते तहि न गर्हिताऽनवस्थावल्लिरुल्लसन्ती [शक्या व्यावर्तयितुम् ] । आगमोऽपि भवदीयोऽन्यदीयो वा ? इति चय॑मानो जगदय॑चतुरमचर्चिकाभिर्न क्षणमपि विश्राणयति मनोविनोदं सुमनोजनानाम् । तन्न प्रतीतं साध्यम् । ___अथाप्रतीतमिति विकल्पो जल्पोद्यतै ल्प्यते तत्रापि किमप्रतीतत्वं वादिन प्रतिवादिनो वा आहोस्विद् द्वयोर्वेति त्रयी गतिः । न तावद् वादिन यतस्तस्य साध्याप्रतीतौ साध्योद्भावनाऽभावान्निग्रहस्थानापत्तेश्च । अथ प्रतिवादिनोऽपि तदप्रतीति. किं तदसत्त्वेन प्रमाणाविषयत्वेन उतायथार्थत्वेन वा स्यात् ? इति विकल्पत्रयी त्रिनेत्रपवित्रनेत्रत्रितयीव