________________
वादचतुष्कम् , उत्प्लुत्य गमनात् । हरिणवत् । अलोमा वा हरिणश्चतुष्पाञ्वे(पादे) सत्युत्प्लुत्य गमनात् । मण्डूकवत्' इतिवन्निर्मूलयुक्तेः साध्यसाध्य(ध)कत्वं कथम् । उक्तं च
.यत्नेनानुमितोऽप्यर्थः कुगलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ [वाक्यप० १ ३४] सिद्धान्तयुक्तिस्तु तदभावादसम्भविनी.। अथास्त्यसौ 'गामे वा नगरे वा अप्पं वा बहुं वा जाव नो परिगिण्हेज्जा' इत्यादिस्तदनुगृहीता युक्तिश्च 'यद् यत् परिग्रहस्वरूपं तत् तदुपादीयमानं पञ्चमव्रतविघातकम् । यथा धन-धान्यादिकम् । परिग्रहस्वरूपं च चीवरम् ।' नन्वसिद्धो हेतुरयम् । तथाहि-परिग्रहहेतुत्वं किं मू हेतुत्वेन धारणामात्रेण वा । यदि मू हेतुत्वेन गरीरमपि मूर्छाया हेतुर्न वा । न तावदहेतुस्तस्यान्तरङ्गत्वेन दुर्लभतया च विशेषतस्तद्धेतुत्वात् । उक्तं च
अह कुणसि थुल्लवत्थाइएसु मुच्छं धुवं सरीरम्मि
अक्के जदुल्लभतरे काहिसि मुच्छं विसेसेणं ॥ [विशेषा०भा०३०४७]
अथास्तु तन्निमित्तमेतत् । तर्हि चीवरवत् तस्यापि किं न प्रथमत एव त्यागो दस्त्यजत्वेन मुक्त्यङ्गतया वा ? दुस्त्यजत्वेन चेत् तदपि परिहार्यम् । मुक्त्यङ्गतयेत्याश्रयणे च किं चीवरेणापराद्धम् । तस्यापि तथाविधशक्तिविकलानां शीतकालादिषु स्वाध्यायाधुपष्टम्भेन मुक्त्यगत्वात् । अभ्युपगम्य च मू हेतुत्वमुच्यते । न हि निगृहीतात्मनां कचिन्मूर्छाऽस्ति । तदुक्तम्
सव्वत्थुवहिणा बुद्धा संरक्षणपरिग्गहे ।
अवि अप्पणो वि देहम्मि नायरति ममाइयं ॥ [[दशवै० ६.२२] नापि धारणामात्रेण । एवं शीतकालादौ प्रतिमाप्र[तिप]त्यादौ केनचिद्भक्त्यादिनोपरिक्षिप्तस्यापि चीवरस्य परिग्रहताप्रसङ्गः । अथ तत्र स्वयं ग्रह्णाभावाददोषः । यदि स्वयंग्रहः परिग्रहहेतुस्तर्हि कुण्डिकाद्यपि नोपादेयम् । दृष्टेष्टविरोधि चेदम् । अथ तत्र मूर्छाया अभावादपरिग्रहत्वम् । एवसति सयमरक्षणायोपादीयमाने चीवरे को दोष' । उक्तं च
जंपि वत्थं च पायं वा कंबलं पायपुंछणं । तं पि संजमलञ्जट्ठा धारंति परिहरंति य ॥ [ दशवै० ६.२०]
अथ संसक्तिविषयतया । यद्येवमाहारे सा किमस्ति न वा ? न तावन्नास्ति । कृमिगण्डूपदाधुत्पादस्य तत्र प्रतिप्राणि प्रतीतत्वात् । अथास्ति परं यतनया न दोषस्तदितरत्रापि तुल्यम् । कपायकारणत्वेन चेत् तत् किमात्मनः परेपां वा । यद्यात्म
१. ला. द विद्यामदिरसस्करणम् ।