SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ परदर्शननिर्णयः योगशास्त्रेऽप्युक्तम् सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ।। योगसारेऽपि निष्कलो निर्ममः शाम्भः सर्वज्ञः शुभदः प्रभुः । स एव भगवानेको देवो सेयो निरञ्जनः ।। व्योमरूपो जगन्नाथ. क्रियाकालगुणोत्तर । संसारसृष्टिनिर्मुक्त. सर्वतेजोविलक्षणः ॥ केवलज्ञानसम्पूर्णः केवलानन्दसंश्रितः । केवलध्यानगम्यश्च देवेश: सर्वदर्शने ।। अतस्तत्त्वमिदम्--- भववीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ [महादेवस्तोत्र, ४४] ज्ञानतपःपात्रं संयमी गुरुः । उक्त चन विद्यया केवलया तपसा वाऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥ याज्ञवल्क्यस्मृति, १.२००] तथा~ ये क्षान्तदान्ताः श्रुतपूर्णकर्मा जितेन्द्रियाः प्राणिवधान्निवृत्ताः । परिग्रहे सड्कुचिताग्रहस्ता स्ते ब्राह्मणास्तारयितुं समर्थाः ॥१॥[व्यासस्मृति, ४. ५८] तथा-- विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत् स्थितम् । स्वस्थमेक चर शान्त तं देवा ब्राह्मणं विदुः ॥१॥ अहेरिव गणाद्भीतः सन्मानान्नरकादिव ।। कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मण विदुः ॥२॥ जीवितं यस्य धर्मार्थ धर्मा(मी) ज्ञानार्थमेव च । अहोरात्राश्च पुण्यार्थ तं देवा ब्राह्मणं विदुः ॥३॥ शान्तिपर्वणि ॥
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy