________________
प्रमाणसुन्दरः । व्यतिरेकेण यत् स्वरूपं त्यजत्येव यन्न त्यजति सर्वथा । तन्नोपादानमर्थस्य क्षणिकं शाश्वतं यथा ॥ इति
ततो न्यायप्राप्तस्यानभ्युपगमायोगात् ततोऽनेकपरिणामपरिणतत्वे द्रवद्रव्यत्वमिति व्युत्पत्तेः सूक्तं द्रव्यलक्षणं त्रिरूपात्मकं सदित्यस्याप्यदूषितत्वादिति । तथा चोक्तम्
विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । *अवाच्यतैकान्तपक्षेऽपि नावाच्यमिति युज्यते ॥ [आप्तमीमांसा ५५]
किञ्च, सकलं वस्तु व्यञ्जनपर्यायात्मतया वाच्यमर्थपर्यायात्मतयाऽवाच्यमिति स्याद्वादवादिनाम् , नतोऽन्यथा प्रमाणाभावात् । तदेवमेव स्यात् सत्', स्यादसत्, स्यात् सदसत् स्याहादमिति कथञ्चिद्भेदेनाभ्युपगमात् ।
न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् ।
व्येत्युदेति विशेषात् ते सहैकत्रोदयादि सत् ॥ [आप्तमी० ५७] स्यात् सदित्यस्य सकृदपि विरुद्धधर्माध्यासानिराकृतेस्तद्वयतिरेकेण चोक्तम्--
यद्यसत् सर्वथा कार्यं तन्मा जनि खपुष्पवत् । मोपादाननियमोऽभून्नाश्वासः कार्यजन्मनि ॥
तदिति भगनिर्णयनियमेन परिणामादावपि भङ्गसप्तकमुन्नेतव्यम् । न चेत्थं विकल्पान्तरं सपनीपयेत । तथा च प्रथमादेर्द्वितीयादिना योगे तृतीयाद्यन्तर्भावस्य बहुलं न पुनरुक्तादिदोषोपनिपातः । तथा च सप्तभङ्गीप्रसादेन शतभड्ग्यपि जायते । ततः प्रकृत
१-न च भिन्नाधिकरणे नित्यत्वानित्यत्वे द्रव्यपर्याययोर्भेदामेदोपगमादन्ययोभयोरप्यसत्त्वापत्तेः तथाहि-शक्यते वक्तु परपरिकल्पित द्रव्यमसन् पर्यायव्यतिरिकत्वात् बालत्वादिपर्यायशून्यवन्ध्यासुत. वत् तथा परपरिकल्पिता पर्याया असन्तो द्रव्यव्यतिरिक्तत्वात् वन्ध्यासुतगतबालत्वादिपर्यायवत् । उक्त च
द्रव्य पर्यायवियुत पर्याया द्रव्यवर्जिता. । व कदा केन किरूपा दृष्टा मानेन केन वा ॥
इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह-नात्यन्तसत उत्पाद. नापि सतो विद्यते विनाशो वा, 'नासतो विद्यते भावो नाभावो विद्यते सत' इतिवचनात, यौ तु दृश्यते प्रतिवस्तु उत्पादविनाशी तदाविर्भावतिरोभावमात्र यथा सर्पस्य उत्फणत्वाविफणत्वे, तस्मात् सर्व वस्तु नित्यमिति द्रव्यपर्याययो सर्वथा भिन्नत्वाङ्गीक्रियमाणे किं द्रव्यम् कः कस्य पर्याय. ? न हि सयो विन्ध्यस्य पर्यायो भवितुमर्हति भिन्नत्वात् ।
२. अवाच्यतैकान्ते युक्तिः । ३. स्थूल । ४ सूक्ष्म ।