________________
प्रमाणसुन्दरः ।
१३९
"
'नीलतद्ज्ञानयोरभेदः सहोपलम्भनियमाद् द्विचन्द्रवत्' इति, तत्साधनत्वं चास्य यो (यो)गपद्यार्थे सहशब्दे तन्नियमस्या भेदविरुद्धे नानात्व एव भावात् सन्नपि तत्र तन्नियमो विरुद्ध एव तद्विशेषविपर्ययसाधनत्वादिति । धर्मिविशेषविपर्ययसाधनो यथा 'अभावो न क्रव्यम्, एकद्रव्यवत्त्वात् द्रव्यत्ववत्' इति, द्रव्यत्वं हि यथा न द्रव्यं न तथाsभावोsपि । तथा ' पुरुषोऽस्ति भोक्तत्वात्' इति । अत्रापि कूटस्थपुरुषधर्मिविशेषत्वेन भोक्तृत्वस्य तत्साधनतया तद्विपरीतसाधनत्वमतो विरुद्धत्वम् । इत्थं विरुद्धत्वा (द्धा)व्यभिचारिणोऽपि । विरुद्धत्वं तु निरन्वयविपर्ययस्य सान्वयविनाशस्यैव साधनादने - कान्तवादिनां विरुद्ध एव विरुद्धाव्यभिचारीति । उक्तं च-
विरुद्धाव्यभिचारी स्यात् विरुद्वो विदुषां मतः । प्रक्रियाव्यतिरेकेण सर्वे समोहहेतवः ॥ [
] ॥ इति ॥
तदितरेषां तु कृतकत्वानित्यत्वादयः संशयहेतव एव । पराभ्युपगतविरुद्वमेदाष्टकैमेतल्लक्षणत्वाविशेषादत्रैवान्तर्भावनीयमिति । अथ यदविनाभावो हेतुलक्षणमिति साध्यम् तद्विपरीत साध्याभासम्, तच्च प्रत्यक्षादिविरुद्धभेदादनेकधा । तत्र प्रत्यक्षविरुद्धं यथा 'अनुष्णोऽग्निर्द्रव्यत्वाज्जलवत्', 'प्रतिक्षणविगरावो भावाः' इति वा, प्रत्यक्षतस्तेषु कथञ्चिदविशरणस्यापि प्रतिपत्तेः । अनुमानविरुद्धं यथा ' न सन्ति बहिरर्था:' इति साधनदूषणप्रयोगादिना तद्भावस्यावस्थापनात् । आगमविरुद्ध यथा 'प्रेत्यासुखदो धर्मः पुरुषाश्रितत्वादधर्मवत्' इ'ते, आगमे हि धर्मस्याभ्युदयनिःश्रेयसहेतुत्वं तद्विपरीतमधर्मस्येति । स्ववचनविरुद्धं यथा 'न वाचो वस्तुविपयाः' इत्यस्य वस्तुविषयत्वे प्रकृतप्रतिज्ञानस्य विरोधात् । अवस्तुविषयत्वे चानर्थकवचनतया निग्रहस्थानत्वापत्तेः । लोकविरुद्व यथा 'शुचि नरशिरःकपालं प्राण्यङ्गत्वात् शङ्खमुक्तिवत्' । लोके हि प्राण्यङ्गत्वाविशेपेऽपि किञ्चिदपवित्र पवित्र च यथा गोपिण्डोत्पन्नत्वाविशेषेऽपि वस्तुस्वभावात् किञ्चिद् दुग्धादि शुद्धं न गोमांसम् ।
अथ साध्यसाधनधर्मयोः सम्बन्धो यत्र निर्णीतः स दृष्टान्तोऽन्वयव्यतिरेकाभ्यां द्विधा । तदाभासाः पुनरसिद्धसाध्यसाधनोभयादयो यथा 'अपौरुषेयः शब्दोमूर्तत्वादिन्द्रिय सुखपरमाणुघटवत्' इति । इन्द्रियसुखे हि साधनममूर्तत्वमस्ति साध्यं त्वपौरुषेयत्व नास्ति पौरुषेयत्वात् तस्येति साध्यविकलम् । परमाणुषु तु साध्यमपौरुषेयत्वमस्ति साधनममूर्तत्वं नास्ति मूर्तत्वात् तेषामिति साधनविकलम् । घटे तूभयमपि नास्ति पौरुषेयत्वान्मूर्तत्वाच्चास्येत्युभयविकलम् । 'रागादिमान् सुगतो वक्तृत्वादेः रथ्यापुरु
१ विरुद्धसाधनत्वम् । २६० प्रमाणमीमांसा २.१.२० ॥