________________
११७
प्रमाणसारः। विवेचयामः' इति चेत् तकि सामान्यलक्षणप्रश्नो विशेषलक्षणप्रश्नो वा ? न परः, को नामापक्रियमव्यवहारि सामान्यमाद्रियते । “भागा एव हि भासन्ते सन्निविष्ठा यथा तथा" इति । जातिः सामान्यं गोत्वं सर्वत्र । 'इयं कृष्णा गौः' इति दोहनक्रियायां तस्यामेवार्थक्रियाकारित्वं न तु सर्वगत]जातौ । मैवम्, किं तत्र गवि स्वरूपसत्त्वं स्वीक्रियते न वा ? अजातित्वेन खुर-ककुदः(द् )सास्नालक्षणानडुहोऽपि दोहनप्रसक्तेः स्वरूपसत्त्वाभवात् । स्वरूपसत्त्वं चेत् तदेव सामान्यम् । तत्रैव सङ्ख्या-परिमाणादिविशेषा इति । निविशेष हि सामान्यं प्रागुक्तयुक्त्याऽसिद्धमेव किं पिष्टपेषणं(णेन)। तत्र सामान्यतः प्रमाणलक्षणमुक्तम् । सम्प्रति विशेषत. प्रस्तुतमनुसन्धीयते । . प्रत्यक्षं परोक्षं च द्वे प्रमाणे । सार्वश्यं ज्ञानं प्रथमं जानाति ततः पश्यति । अस्मदादिज्ञानं प्रथमं पश्यति ततो जानाति ।
आहुर्विधातृ प्रत्यक्षं न निषेध विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते ॥ [ब्रह्मसि० तर्कपाद श्लो० १]
आगमप्रमाणं निषेधकम् , क्वापि विधायकम् । प्रत्यक्षं तु विधायकमेव, न निषेधृ । कोऽर्थः ? वैशेषिकमतमुद्दिश्य प्रत्यक्षमनुमानाधीनं चक्षुरादेः प्रकाशकं न तु ग्राहकम् । पूर्वानुभूतं तदाकारतया तदिष्टं साध्यं साधयतीति ।
प्रमाणेतरसामान्यस्थितेरन्यधियोगतेः ।
प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचिदिति ॥ [ धर्मकीर्ति ] ।
चार्वाका अपि प्रत्यक्षयोग्यार्थमात्रग्राहकां गिरं सगिरन्ते स्म । नास्त्यात्मा प्रत्यक्षप्रमाणातिक्रान्तत्वादिति । अक्षं अक्षं प्रति प्रत्यक्षमित्यव्ययीभावानियतनपुंस्त्व स्यात् । अक्षिशब्दादपि चेन्न चैवं स्पर्शनादिप्रत्यक्ष नैतच्छब्दवाच्यं स्यादिति । अतः अक्षमिन्द्रियं ततः प्रतिगतं प्रत्यक्षमिति सिद्धम् । तदिदं प्रत्यक्षस्वरूपस्य सवेदनस्य स्वाभाविकसामर्थ्यसङ्केतितार्थबोधबुद्धिशब्दाभ्यामनुमानाद्याधिक्येन विशेषप्रकाशन स्पष्टत्वम् ।
। प्रत्यक्षमपि द्विप्रकारम् - सांव्यवहारिकं पारमार्थिकं च । तत्रेन्द्रियाऽनिन्द्रियनिमित्तं देशतः सांव्यावहारिकं प्रत्यक्षम् । तत्रेन्द्रियाणि विषयिणः पञ्च, स्पर्श-रस-गन्ध-रूप-शब्दाः [विषयाः ।
स्पर्शन-रसन-प्राण-श्रोत्राण्यन्येन्द्रियताबलात् । चक्षुरप्राप्यविज्ञातृ मनोवत् प्रतिपद्यताम् ॥ [