________________
श्रीमुनीश्वरसूरिनिबद्धः अथ क्षणिकाल्मा निरन्वयं विनश्यति, अन्वयरूपां वासनां दत्त्वा क्षणान्तरभावी सवति चेन्ननु धर्मोत्तरवादिस्तव सन्धासम्बन्धाभिसन्धिरिति-यत् किलात्मा क्षणविनागी । अन्वयरूपा वासना तिष्ठति । सा वासना परम्परां प्रवर्तयतीति । नूनं नित्यानित्यगुणोपभोगमाक् स एवात्मा अन्धभुजगरन्ध्रमिव, यथा अन्धो भुजङ्गो यत्र तत्र भ्रान्त्वा सरल स्वरन्ध्रमेव विशति; परै पक्षान्तरे जिनमतमेवाश्रितम् ॥
मनस्ते कुत्रचिद्यातु वपुस्ते वर्तते न वा ।
यदेवार्थक्रियाकारि तदेव परमार्थसत् ॥ [ ] इति सौगतवृषस्यन्ती प्रति पिङ्गवाग्भिरपि प्रस्तुतार्थः समर्थित. स्यादेव ।।
किञ्च, सत्त्वस्यानन्तधर्मात्मकत्वं भूयः प्रतिजानीते जिनैः । नन्वेकान्तनित्यानित्यस्य क्रमाक्रमाम्यां ह्यर्थक्रियाकारित्वं न घटते । एकान्तनित्यानित्यो भाव. क्रमेणार्थक्रियां कुर्यादक्रमेण वा ? क्रमो हि पौर्वापर्यम् । पाकक्रियायामधिश्रयणा'दिका क्रिया पूर्वभाग. । निप्पन्नमित्यपरभागः । तत्रैकान्तनित्यत्य पूर्वापरभागौ न घदेते । अवस्थाभेदतोऽनित्यताप्रसक्तेरिति । तावेकान्तानित्यस्यापि न युज्येयाताम् । पूर्वभागोऽपरभागं यावत् क्षणक्षयो न प्रतीक्ष्यते मड्क्षु क्षीयते च । युगपदुभयोरपि न सिद्धिरिति तात्पर्यार्थः ।।
. अनन्तधर्मात्मकत्वमिति स्याद्दादलक्षणम् । 'सदेव सत्' दुर्नीतिवाक्यम् । 'स्यात् सत्' नयवाक्यम् । 'सदिति घटः' प्रमाणवाक्यम् । घटोऽस्तीति न वक्तव्यं 'सन्नेव हि घटो यतः, सत्तायामपि सत्तायोगेऽनवस्था; नास्तीत्यपि न वक्तव्यः, “विरोधात्, सदसत्त्वयोः प्रत्यक्षविरोधः ।
सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ।
अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसम्भवः ॥ [ ] एकस्मिन् भावे सत्वमसत्त्वं च, न विरोध ।
परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकतापि विरुद्धानामुक्तमात्रविरोधिनी ॥ विरोधे चाविरोधे च प्रमाणं कारणं मतम् ।
प्रतीयते चेदुभयं विरोघः कोऽयमुच्यते ।। नोलोत्पले यथा । नरसिंह इति भागे सिंहो नरो भागे, द्वयस्यैकार्थक्रियाकारित्वान्न विरोधः । अथ----
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेपजे ॥ [ ]