________________
हेतुखण्डनपाण्डित्यम् ।
१०१
इत्यादिपद्यैः परक्रियमाणाधिक्षेपमाकर्ण्य यस्तदुर्मदापनोद विनोदाय नोत्सहते
स पौरुषात् परिभ्रष्ट इत्युच्यते । यथा
यो वा वादिनं सम्प्राप्ते कम्पते मूढमानसः । केवलं स गुरुक्लेशावेशायैव नरः खरः ॥
श्रीवादिदेवसूरिपादैरपि पठितम्
आः कण्ठशोषपरिपोषकफलप्रमाणव्याख्याश्रमो मयि बभूव गुरोर्जनस्य । एवंविधान्यपि विडम्बनविवराणि
यः शासनस्य ह ह हा मसृणः शृणोमि ॥
इत्यादि मर्नास विधाय पूर्वं सामवाक्यैरेव निर्वचनीयः कार्यः ।
च्छासनस्येति । यथा
अहङ्कारोद्रेकः कलयति न वा संमनसिनो
न च द्वेषोन्मेषः शमरससुधा सारविशदे ।
एवमुक्तोऽपि यदि न निवर्तते तदोत्तरार्धनिरूपणेन तिरस्कार्य:, यथापरं ये दौर्मों (मु) ग्घा (ग्ध्या ) दधति गुणमात्सर्यमधियो न मृश्यामस्तेषां क्षणमपि मदोन्मादमधुना ॥ ज्ञास्यते वादवैदुष्यं ज्ञास्यते गुरुगौरवम् । स्थास्यतेऽस्मदुपन्यासो विन्यासोत्तरसङ्गरे ॥ श्रूयतां श्रूयतां पूर्वं स्थीयतां स्थीयतां स्थिरम् । वयं वदामस्तत्पद्यैरनिन्द्यैस्तर्हि तद्यथा ॥
:
घटोऽयमेतज्जनिकृद् विनाशिज्ञानेतर ज्ञानपदेन जन्यः । कार्यत्वतः कुम्भवदत्र चिन्त्यं तथोपपत्त्येतरथा न वै
उपशम फलत्वा
स्यात् ॥
मूलानुमानं चेदम् - अय घट एतज्जनि (न) कानित्यज्ञानेत र ज्ञानजन्यः कार्यत्वात् पटवत् । एते उभेऽपि जगत्कर्तृत्वसाधके, एते एव शब्दपरावृत्या जगदकर्तृत्वसाधके । यथा
घटोऽयमेतज्जनिकृद् द्विनाशि
ज्ञानेतरज्ञानभृता न जन्यः ।
कार्यत्वतः कुम् [भ]वदत्र नानात्वमेव न स्याज्जगतस्तथात्वे ॥