SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ३ लीलता पूर्णता उन्मनी लोलता मूर्च्छता इति पञ्चगुणं शून्यम् ।। १८ ।। सत्यत्वं सहजत्वं समरसत्वं सावधानत्वं सर्वगत्वमिति पञ्चगुणं निरञ्जनम् ॥ १९ ॥ अक्षय्यत्वमभेद्यत्वमछेद्यत्वमदाह्यत्वमविनाशित्वमितिपञ्चगुणो परमात्मेति अनाद्यपिण्डस्य पञ्चतत्वपञ्चविंशतिगुणाः ॥ २० ॥ उक्तश्च : अपरम्परं परमपदं शून्यं निरञ्जनं परमात्मनः पञ्चभिरेतैः सगुणैरनाद्यपिण्डः समुत्पन्नः ॥ २१ ॥ अनाद्यात्परमानन्दः परमानन्दात्प्रबोधः प्रबोधाच्चिदुदयः चिदुदयात्प्रकाशः प्रकाशात्सोऽहम्भावः ॥ २२ ॥ ----- स्पन्दः हर्षः उत्साहः निस्पन्दः नित्यसुखत्वमिति पञ्चगुणः परमानन्दः ॥ २३ ॥ उदयः उल्लासः अवभासः विकासः प्रभा इति पञ्चगुणः प्रबोधः ।। २४ ।। सद्भावः विचारः कर्तृत्वं ज्ञातृत्वं स्वतन्त्रत्वमिति पञ्चगुणः चिदुदयः ।। २५ ।। निर्विकारत्वं निष्कलत्वं निर्विकल्पत्वं समता विश्रान्तिः इति पञ्चगुणः प्रकाशः ॥ २६ ॥ अहन्ता ऽखण्डैश्वर्यं स्वात्मता विश्वानुभवसामर्थ्यं सर्वज्ञत्वमिति पञ्चगुणः सोऽहम्भावः ।। २७ । इति आद्यपिण्डस्य पञ्चतत्वं पञ्चविंशतिगुणाः ।। २८ ।। उक्तश्च : परमानन्दः प्रबोधः चिदुदयः चित्प्रकाशः । सोहम्भाव इत्यन्तः आद्यपिण्डो महातत्त्वंगुणयुक्तः समुत्थितः ।। २९ ।। ११ - लोनता ( इ. ) नीलता, (का.). १२ - महातत्वयुक्तः (ह. ).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy